________________
. योगवार्तिकम् । नत्यन्तं विलापयतीत्यर्थः । दृढतरत्वंच जातिविशेष इत्युक्तम् । ननु ज्ञानस्यैव संस्कारजनकत्वं दृष्टं निरोधस्तु न ज्ञान संस्कारशेषचित्तावस्याविशेषमात्रत्वादतस्तस्य संस्कारजनकत्वे किं प्रमाणमित्याशझाह । निरोधर्धास्यतीति । निरोधस्थितावमंप्रज्ञातावस्याने यो मुहताहोरात्रमासादिरूपः कालक्रमः क्रमेण कालवृद्धिस्तदर्शनेन निरोधावाचत्तजन्यः संस्कारोऽनु. मेयः संस्कारद्वितिरेकेण नियामकासंभवादित्यर्थः । संप्रज्ञातस्य तु कालद्धिः प्रजासंस्कारतारतम्येनैवोपपद्यतइत्यतो न संप्रज्ञातस्य संस्कारहेतुति । ननु प्रजासंस्कारश्चरमासंप्रज्ञातेनात्यन्तं बाध्यतां निरोधसंस्कारास्तु कुतः समुच्छिदान्त तदनुच्छेदे च साधिकारत्वमेव चित्तस्येति मोक्षानुपात्तः । किं च प्रलीनानापि संस्काराणां कदाचियोगीश्वरसंकत्यादिना दग्धबीजस्येव पुनरुवोधोऽपि सम्भाव्यतेत्याशङ्कामपाकरोति । व्युत्थाननिरोधेति । असंप्रज्ञातापेक्षया समाधिप्रज्ञापि व्युत्थानम् । अतो व्यत्यानं ज्ञानसामान्यं निरोधसमाधिश्चासंप्रज्ञातस्तदुभयप्रभवैः सह स. हितैः कैवल्यभागीयैः कैवल्यहेतुकर्मसंस्कार्रवशिष्टं चित्तं स्वकीयप्रकृती नित्यायां स्वयमेव प्रलीयते दग्धेन्धनानलवदान्तिकलयं गति परिणामस्वाभाव्यात तत्स्वामि पुरुषस्य भोगहेतुविसदृशपरिणाम एव हि पुन. नं भवति तद्वतोः पुरुषार्थस्याभावादित्यर्थः। अथ वा कैवल्यभागीयैः कैवल्यपर्यन्तस्वाभिव्युत्थानसंस्कारैः सोत चिविशेषणम् । अनेन सूत्रेण शङ्कानिराकरणमुपपादयति । तस्मादिति । तस्माविरोधसंस्कारस्यापि क्षयात्ते निरोधसंस्कारा इत्यादिरर्थः । ननु भवतु ये गद्याच्चित्तस्यान्तिकलयस्तथापि पुरुषार्थः कः सिध्यतीत्याकाङ्कायामाह यस्मादित्यादि । यस्माच्चिन निवर्ततेऽत्तस्तस्मिनिवृत्ते सति पुरुयो मुक्त इत्युच्यते तत्र हेतुगर्भविशेषणानि स्वरूपत्यादीनि । स्वरूपमात्रप्रतिष्ठः पररूपैः प्रतिबिम्बितदुःखादिभिर्मुक्तः शुद्धस्वत्वसंबन्धेन पुण्यपापमुक्तः । भेोगसाधनत्वस्यैव स्वत्वतया कूटस्थस्यापि संसारदशायां स्वत्वाभ्युपगमात् । एतादृशमुक्तेः साध्यत्वमुपपन्नं केवल उपाधिसंयोगाख्यबन्धमुक्त इत्यर्थः । एवंरूपो मोत एव योगस्य मुख्यं फलमित्याशयः । पारमार्थिको दुःखकादिसंबन्धो लेपाख्यमंयोगरूप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org