________________
८७
योगवार्तिकम् । संबन्धो वा लोके बन्ध इत्यच्यते तन्मुक्तिश्च बुद्देरेव न कूटस्थस्या सङ्गस्य पुरुष त्येति प्रतिपादयितुं मुक्त इत्युच्यतइत्युक्तं शास्त्रेषु मुक्त इति व्यवहारमात्रं क्रियतइति तस्यार्थः । तदुक्तं सामसत्रेण वाङ्मात्रं न तु तत्त्वं चिस्थिते रिति । पुरुषे बन्धादिकं वाङ्मात्रं चित्तएव बन्धादयवस्छानादित्यर्थः । पुरुषार्थत्वं च पारमार्थिकमेव दुःखं भुजीयामिति प्रार्थनादिति भावः । सायप्रवचनत । सायशास्त्रस्यैव प्रकर्षण वचनं सायप्रवचन साड्ये ह्यभ्युपगमवादेनेवरं प्रतिषिधासंप्रज्ञातयोगनरपेक्ष्येण च जीवतत्त्वज्ञानादेव मोत उक्तोऽस्मिंस्तु शास्त्रे निरुपद्रवान्दिग्धैच्छिकमुक्तिनियमाय परमेश्वरविद्या आशुमोक्षहेतुरसंप्रजातयोगश्च प्रदर्शित इति भावः ।
हत श्रीपातञ्जलभाष्यवार्त्तिके श्रीविज्ञानभि िते प्रथमः समाधिपादः ॥
अथ द्वितीयः पादः ।। नन प्रथमपादेनैव योगः सोपायः सफलश्चावान्तरभेदैः सह प्रोक्तः । त्किमपरमशिष्यते यदर्थ द्वितीयपाद आरब्धव्य इत्याकासायामाह । उद्दिष्ट इति । समाहितचित्तस्य योगारूढचित्तस्योत्तमाधिकारिणो ऽभ्या. सवैराग्यमात्रसाधनेनैष क्रियायोगादिसकलाङ्गानां नैरपेक्ष्येण पूर्वपादे योगः प्रदर्शितः तेषां बहिरङ्गत्वं वात 'त्रयमन्तरङ्गं पूर्वभ्य' इतिसूत्रेण तद. भावेपि भावादिति भाष्येण च । तथा चोक्तमाश्वमेधिके ।
अपेतव्रतका तु केवलं ब्रम्हणि स्थितः । ब्रम्हभतश्चरन् लोके ब्रम्हचारीति कथ्यते ॥ इति । तथा गारुडेपि । आसनस्यानविधयो न योगस्य प्रसाधकाः । शिशुपाल सिद्धिमाप स्मरणाभ्यासगौरवात् ॥
इति । ते चाभ्यासवैराग्ये न सर्वेषां द्रागित्येव भवतः, अतो व्यत्थितचित्ती बहिर्मुखोपि योगा रुतुः क्रमात् केनोपायेन योगयुक्तः स्यादिति
* योगमारुरुरिति तु युक्तम् । रा० शा० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org