________________
योगवार्तिकम् ।
तमुपायं वक्तुमेतत्सत्रजातमारभतइत्यर्थः । तदेवमधिकारभेदेन साधनभेदो गारुडादिष्वप्युक्तः ।
आरुरुत्यतीनां च कर्मज्ञाने उदाहृते । आरूढयोगवृक्षाणां ज्ञानत्यागी परी मता ॥ इति । त्यागो बाह्मकर्मणाम् । गीतायामपि । आरुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते । इति । कारणं योगस्य ॥ तप: स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः ॥ १ ॥
योगोपायत्वाद्योगः, क्रिया चासौ योगश्चेति विग्रहः तपादीनि त्रीणि क्रियायोग इत्यर्थः । ईश्वरप्रणिधानरूपो भक्तियोगो ऽप्यत्र क्रियायोगमध्यएव प्रवेशितः । अतो 'योगास्त्रयो मया प्रोक्ता भक्तिज्ञानक्रियात्मका' इत्यादिस्मृतिषु त्रय एव योगोपायत्वावोगा उक्ताः तत्र ज्ञानयोगो धारणाध्यानसमाधिरूपः पूर्वपादे प्रोक्तः विस्तरस्त्वस्याग्रे भविष्यतीति । यपि यमादयोपि क्रियायोगास्तथापि वयमाणयमनियमादिषु मध्ये तपादित्रयं प्रकृष्टतयादौ पृथङ् निर्दिष्टं केवलेनैतेनापि तीव्रतरेण योगो भवति सूर्चायमिति बोध्यम् । ननु स्वाध्यायेश्वरप्रणिधानं च तत्त्वज्ञा. नेश्वरानुग्रहाभ्यां योगोपकारकं स्यात् तपस्तु देहेन्द्रियशोषणात्मकं केन द्वा. रेण योगस्योपकारकं भवतु प्रत्युत चित्तभकत्त्वेन योगविरोध्येवेत्याशझ तपसे द्वारमाह । नातपस्विन इति । असिहो हेतुमाह । अनादीति । अनादिक्लेशकर्मवासनया हेतुना चित्रा नानाविधा अशुद्धिः पापाख्या प्रत्युपस्थापितविषयजालतया योगविरोधिनी तपो विना न संभेदं तनुतामापातइत्यर्थः । इतीति । इत्यतः साधनमध्ये तपसो ग्रहमित्यर्थः । योगविरोधशङ्कामपाकरोति । तच्चेति । तच्च तपश्चित्तप्रसादाविरोधि मृदेवानेन योगिना कर्तव्यमिति परमर्षिभिमन्यतइत्यर्थः । पवित्राणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org