SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । पापक्षयहेतूनाम् । प्रथमपादोक्तप्रणिधानादतिरिकमंत्र प्रणिधानमाह । सर्वक्रियामिति । लौकिकवैदिका साधारण्येन सर्वकर्मणां परमेश्वरन्तमिणि अर्पणमित्यर्थः । तदुक्तं गीतायाम् । यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति । अर्पणं च कामतो कामतो वापि यत्करोमि शुभाशुभम् । तत्सवं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ इत्यादिस्मृतिभिव्याख्यातमिति । त्वत्प्रयुक्तः करोम्यहमितिचिन्तनमेव संन्यास इत्यर्थः । अत्र प्रयोक्तृत्वमन्तर्यामिविधयैव न तु श्रुतिद्वारा अशुभकर्मसु श्रुत्यभावादिति । एतदपेक्षयापि प्रकृष्टं द्विविधं कर्मार्पणान्तरं कर्मे प्रोक्तम् । ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ नाहं कर्त्ता सर्वमेतत् ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ इति । तत्फलेति । एतदपि को प्रोक्तम् । यद्वा फलानां संन्यासं प्रकुर्यात्परमेश्वरे । कर्मणामेतदण्याहुर्ब्रह्मार्पणमनुत्तमम् ॥ ह इति । कर्मफलानामीश्वरो भोक्तेति चिन्तनं कर्मफल संन्यासः । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरमित्यादिवाक्यात् । तदुक्तम् । 'करोति यत्सकलं परस्मै नारायणायेति समर्पयेत् तदिति । यज्ञादीनां हीन्द्रादिभावापत्रस्यान्तर्यामिणो भोग एवं मुख्यं फलं येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेपि मामेव कौन्तेय यजन्त्य विधिपूर्वक' • हिशब्दः पुस्तकान्तरे नास्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy