________________
योगवार्तिकम् ।
मित्यादिवाक्येभ्य इति । नन्वत्र वाक्ये विष्णुवाख्यदेवताविशेषस्यैवेतरदेवतायजनेन यजनं प्रोक्तं न परमात्मन इति चेत्र । परं हि ब्रह्म कथितं योगयुक्तेन तन्मयेत्यनुगीतावाक्यतः श्रीकृष्णस्य भगवद्गीतायां परमात्मापदेशन्यैव लाभादिति । यझपीश्वरस्य भोगो नित्यः तथापि सिसृक्षायुत्पत्ति वत् तदुत्पत्तिर्गणी । यज्ञादिसहकारेणैव फलदातृतयेश्वरप्रीतेरभिव्यक्तेः । नन्वीश्वरप्रणिधानमत्र पूर्वपादोक्तभावनारूपमेव कथं न भवति तत्राह । स हि क्रियायोग इति । स हि स एव फलसंन्यासः कर्मर्पणं च क्रियायेोगो भवति कर्मशेषत्वात्तज्जपस्तदर्थभावनमिति पूर्वोक्तं च भावनारूपं प्रणिधानं ज्ञानमेव कर्मतच्छेषत्वयोरभावादित्यर्थः । उत्तरसूत्रेण सहान्वये तुहिशब्दवैयर्थ्यामिति बोध्यम् । तेषां येोगद्वारमाह ॥
समाधिभावनार्थः क्लेशननूकरणार्थश्च ॥ २ ॥
उभयार्यत्वे हेतुमाह । स हीति । आा सम्यक् निष्कादिरूपेण सेव्यमानः स हि स एव कर्मयोगः । कर्मतिरिक्तविषयेभ्यो निरुद्धवृत्तिकं निष्पापं च चित्तं करोति ततः क्रमेण सत्त्वाद्रेकादेकायमन्यत्रापि करोति । अविद्यादिकं च प्रकर्षणानायासेन तनकरोति सशुझादिद्वारेत्यर्थः । उत्तमाधिकारिणश्च समाधियोग्यता क्कशतनुता च सिद्वैवेत्यतः पूर्वपादे तदुभयं योगसाधनतया नोक्तम् । ननु अविद्यादीनां क्लेशानां नाशेनैव संसा रोच्छेदः प्रतनूकरणेन तु किं प्रयेोजनमित्याकाङ्गायामाह । प्रतनूकृतानिति । प्रतनूकृतांश्च शुष्केन्धनतुल्यान् कृतान् क्लेशान् क्रियायोगः स्वयमुद्दीपितेन प्रसंख्यानाग्निना विवेकख्यातिवन्हिना दग्धबीजवदप्रसवधर्मिणोप्रसवस्वभावान् संस्काराजनकात् करिष्यति जीवन्मुक्तिदशायामिति शेषः । प्रसंख्यानाग्निज्वालने तनूकरणस्य द्वारं वदन् पूर्वोक्तार्थमुपसंहरति । तेषामिति । परामृष्टा अनभिभूता, तथा चानभिभव एव तनूकरणस्य द्वारमिति । सूक्ष्मेति । सूक्ष्मविषयत्वात् सूक्ष्मा साक्षात्काररूपिणी प्रज्ञा क्रमेसमाप्तकर्त्तव्या सती चरमासंप्रज्ञाते प्रतिप्रसवाय प्रलयाय कल्पिष्यते विदेह कैवल्यदशायामिति शेषः । तदेवं क्रियायोगस्य मोक्षज्ञानादिव्यापा
९०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org