SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । रकथनात्कर्मयोगो ज्ञानादिसाधनतया ज्ञानादाङ्गमेव न साक्षान्मोक्षहेतु. रिति सिद्धान्त इति । उत्तरसूत्रावताराय पृच्छति । अति ॥ अविद्यास्मितारागद्देषाभिनिवेशा: क्लेशा: ॥ ३ ॥ पञ्च विपर्यया इति पूरयित्वा संक्षेपतः सूत्रार्थमाह। क्लेशा इतीति। इतिशब्दोऽविद्यादिपरामर्षी तघा चाविद्यास्मितारागद्वेषाभिनिवेशा इति पविपर्ययाः क्लेशा इत्यर्थ इति योजना । अत्र कियन्त इतिप्रश्नस्योत्तर पञ्चेत्यनेन । के तहत्त्यस्य चोत्तरं विपर्यया इत्यनेनाह। पञ्च विपर्यया इति। अत्र पञ्चेत्यर्थादेव लब्धं विपर्यया इति च परितं विशेषलक्षणस्य च सा. मान्यलक्षणपूर्वकत्व चित्त्यात विपर्ययशद्धश्चात्र संसारहेतुविपर्ययार्थकः अतो न शक्तिरजतविपर्यये क्लेशलक्षणातिव्याप्तिः रागादीनां च विपर्ययकार्यतया विपर्ययत्वं चेष्टम् । प्रकृतस्य संसारहेतुविपर्ययस्य लक्षणम दृष्टसामान्यहेतुमनोविशेषगुणर्माित । ननु लशशब्दो दुःखवाची क्रिमियावयादिषु परिभाषितः किमर्थ वा तेषामुच्छेदोपेक्षित इत्याकासायामाह। ते स्यन्दमाना इति। ते लेशाः स्यन्दमाना लब्यत्तिका दृष्टादृष्टद्वारा गुणानां सत्त्वादीनाम् अधिकार कार्यारम्भणसामर्थ्य द्रढयन्ति बलवत् कुर्वन्ति तथा गुणानां परिणामं वैषम्यरूपमवस्यापन्ति निवर्त. यन्ति ततश्च महादरूपकार्यकारणप्रवाहमुत्रमयन्ति प्रपतन्ति । यदर्थमेतत्सर्व कुर्वन्ति तदर्शयति । परस्परेति । कमविपाकं जात्यायुभीगं चाभिनिहन्ति निष्पादन्ति । किं स्वतन्त्रा एव, नेत्याह । परस्परानुग्रहतन्त्राभूत्वेति। अविद्याते। रागो रामाच्चाविज्ञत्येवमादिरूपान्योन्यानुयहाधीना भत्वेत्यर्थः । अन्योन्यसाहित्येनैव हि क्लेशानां स्ययं भवति येन स्यैर्यण विपाकपरंपरा निर्वहतीति भावः । तथा च क्लेशाख्यदुःखद्धन्वादविद्मादीनां क्लेशरिभाषा तान्त्रिकी तथा दुःर्खानदानतया ऽविदादयः समुच्छेतव्या इति भावः । क्लेशानां स्थूलसूक्ष्माणां सर्वेषामेव ज्ञाननाश्यत्व वत्यमाणमुपपार्दायतुम् अविनामूलकल्लमन्यक्लेशानामाह ॥ बोमिनि पाठान्तरम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy