________________
योगवार्तिकम् ।
अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नादाराणाम् ॥ ४ ॥
निमित्तकारणस्यापि प्रसवभूमित्वं प्राधान्यमात्रेण गौणं व्याख्यास्यते । अत्रेति । अत्र एतेषु क्लेशेषु मध्ये चतुर्भेदानामस्मितादिक्केशानामि त्यादिरर्थः । प्रसुप्तादीनां सर्वषामेवाविद्यासत्त्वं सत्त्वं तदभावे सदभाव इत्याशयः । तेषां चतुर्विधभेदं विवृणोति । तत्र का प्रसुप्तिरिति । चेतसिं शक्तिमात्रेणानागतावस्ययावस्थितानामस्मितादीनां बीजभावोपगमः स्व. कार्य जननसामर्थ्यं प्रसुप्तिरित्यर्थः । अस्माद्वाक्यात् कार्यस्यानागतावस्यैव कारणे कार्यशक्तिरिति लब्धं सैव च उपादानकारणतेति भावः । दग्धबीजभावां पञ्चमीमवस्यां व्यावर्त्तयितुं बीजभावोपगम इत्युक्तं दग्धबीजभावानां चास्मितादीनां पुनरप्रसवादविद्या न क्षेत्रमिति सा पञ्चम्यवस्था न लक्ष्येतिभावः । कदाचित्प्रबोधसत्त्वे एव सुषुप्तिः संभवतीत्यतः प्रबोधमपि दर्शयति । तस्येति । तस्य सुप्तक्लेशस्य स्वस्वविषये संमुखीभावाभिव्यक्तिः प्रबोध इत्यर्थः । पञ्चम्यवस्यायामतिव्याप्यभावं प्रतिपादयति । प्रसंख्यानेति । प्रसंख्यानघतो विवेकसाक्षात्कारिणो जीवन्मुक्तस्य दग्धक्लेशबीजता संमुखीभूते सन्निकृष्टेपि विषये असा केशानां संमुखीभावः पुननें भवति । तत्र हेतुर्दग्धबीजस्य कुतः प्ररोहद्वतीति । कारणाभावादित्यर्थः । तत्र तस्य पुनः क्लेशप्ररोहे शास्त्रप्रसिद्धं चरमदेहकत्वं प्रमाणयति । अत इति । पुनः प्ररे हे सति देहान्तरोत्त्यत्त्या ज्ञानिदेहस्य चरमत्वानुपपत्तिरिति भावः । तथा च स्मर्यते ।
ক
बीजन्यन्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशन मा संपते पुनः ॥
इति । ज्ञानदग्धेः क्लेशरूपबी जैहैन भिरात्मा देहो न पुनरुत्पद्यतइत्यर्थः । क्लेशाख्यबीजदाहादित्यर्थः । दग्धबीजभावाया अवस्थाया अपरिगणने बीजमाह । तत्रैवेति । तत्रैव चरमद्रहएव दग्धबीजावस्या नान्यत्र पुन - जन्माभावादित्यर्थः । अतो नास्ति दग्धबीजावस्थस्य प्रसवो नापि तत्प्रसवभूमिरविदोति भावः । जीवन्मुक्तानां विषयसत्रिकर्षापि क्लेशानभिव्यक्तेः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org