________________
योगवार्तिकम् । केशसंस्कार एव तदा नास्ति विवेके वैवल्यवेति भ्रमं निरस्यति । सतामिति । सूत्मरूपेण सतामेव क्लेशानां तदा चरमदेहे बीजसामर्थ्य कार्यजननसामथ्यं दग्धं नाशिमित्यादिरर्थः । अन्यादौ दाहादिशक्ताव. द्रव्यभावितादर्शनात चित्तेन सहैव क्लेशशक्तरशेषतो नाशसंभवात् । ततश्च ते प्रतिप्रसवहेयाः सूक्ष्मा इतिसूत्रे व्यक्तीभविष्यति । उपसंहति । इत्युतं प्रसुप्तिदग्धबीजानामप्ररोहश्चेति। शिष्यावधानाय क्रमप्राप्तं तनुत्वस्य निर्वचनं प्रतिजानीते । तनुत्वमुच्यतइति । प्रतिपक्षेति । क्लेशप्रतिपतः क्रियायोगः तस्य भावनमनुष्ठानं तेनोपहताः लेशास्तनवो विवेकख्याति. प्रतिबन्धाक्षमा भवन्ति, एतदेव तनुत्वमिति शेषः । के चित्तु सम्यग्दर्शनं श्रवणादिरूपं परोक्षमविझायाः प्रतिपक्षः एवं भेददर्शनमस्मितायाम देयानुपादेयताज्ञानरूपं माध्यस्थ्यं रागद्वेषयोः उपकरणाख्यानुबन्धबुद्धि. निवृत्तिरभिनिवेशस्य एतेषां भावनेनानुष्ठानेनोपहता इत्यर्थमाहुः। विच्छितिं व्याचष्टे । तथेति । क्लेशानामन्यतमेनाभिभवादत्यन्तविषयसेबनाद्वा विच्छियविच्छिदय तेनतेनात्मना पूर्ववदतनुभावेनैव पुनः समु. दाचरन्ति आविर्भवन्तीत्यतो विच्छिन्नशब्दवाच्या भवन्तीत्यर्थः । अत्र वीप्सया विच्छिदासमुदाचारयोः पौनःपुन्यं दर्शयता प्रसुप्तात् भेद उक्तः प्रसुप्तिहि लेशानां व्य ज विलम्बनैिित्रजन्मादिबहुकालं व्यापारानभिक्तिः विच्छित्रता तु स्वल्यप्रतिबन्धतः क्लेशप्रवादस्याल्यकालमन्तरान्त. रानभिव्यक्तिरिति भेदः, तेनतेनात्मने त्यनेन च तन्ववस्थातो भेद उक्त इति । विच्छेदे प्रमाणं पृच्छति । कमिति । उत्तरं, रागेति । रागकाले क्रोधस्यादर्शनात क्राधस्य विच्छिचता सिध्यतीत्यर्थः। तदा क्रोधाभावेच पुनः धिोत्पत्त्य संभवः असत्कार्यानभ्युपगमादिति भावः । एवं क्लेशान्तरेपि द्रष्टव्यम् । रागकाले क्रोधस्य विक्केदे च विरोधो बीमित्याह । नहीति । कालिकविच्छेदं क्लेशानाम् उदाहृत्य दैशिकविच्छेदमप्युदाहरति। रागश्चे. ति। विषयान्तरे न नास्ति अपि तु विच्छिवावभ्यस्तत्रापि अन्यथाऽसदु. त्पादासंभवादित्यर्थः । अतो विषयान्तरे तदा रागेण विचित्र इति भावः। तदेवं लोकव्यवहारेणाप्यवधारयति । नैकस्यामिति । तत्र एकस्यां स्त्रिया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org