________________
योगवार्तिकम् ।
मित्यर्थः । स हीति । स हि रागस्तदा अन्यत्र प्रसुप्ता वा तनुवा विच्छितो वैकतरो ऽवश्यं भवति तत्र विच्छिन्नतामादायात्रोदाहृत इत्याशयः । उदारतां व्याचष्टे । विषये इति । लब्धवृत्तिर्लब्धस्वाभाविकवृत्तिरित्यर्थः । तेन तनुव्यावृत्तिः । ननु प्रसुप्तविच्छित्रयोः कथं क्लेशत्वं दुःखाजनकत्वादित्याशयाह । सर्वत्रैतइति । क्लेशविषयत्वं क्लेशजननयेोग्यत्वं नातिक्रामन्ति उदारादावस्यायां प्रसुप्तादिरूपस्य धर्मिणो दुःखदत्वादित्यर्थः । नन्वेवं सवासामेव क्लेश व्यक्तीनां कालभेदाच्चानुरूप्ये कथं प्रसुप्तादिरूपेण क्लेशानां विभाग इत्याशङ्कते । कस्तहति । परिहरति । उच्यतइति । प्रसुप्तादिरूपेण चतुणों क्लेशानामेकत्वमिति सत्यमेतत् । तथापि अवस्थाभिर्विशिष्टानामेव क्लेशानां विच्छिवादित्वं विवक्षितं यथैकस्यैव पुरुषस्य बालक तरुणवद्धादिरूपो विभाग इत्यर्थः । उक्ताया उदारावस्थायाः कारणं प्रदर्शयति हानाय । यथैवेति । स्वव्यञ्जकेन विषयध्यानेनाञ्जनेनाभिव्यक्त उदारो भवति क्लेशः, तो मुमुक्षुणा प्रतिपक्षभावनावद्विषयसङ्गत्यागोपि कार्य इत्याशयः । निमित्तका (पि नेत्रशब्देा येन गुणेनात्र गौण स्तमाह । सर्वएवेति । ननु रागादीनां ज्ञानत्वाभावात् कथमविदगविशेषत्वमित्याशयेन पृच्छति । कस्मादिति । उत्तरं, सर्वेष्विति । सर्वेष्वेव स्वेतरक्लेशेष्वविट्यैव व्यापिका भवति तत्र हेतुर्यदिति विषयीक्रियते । अनुशेरते अनुगता भवन्ति, शेषं सुगमं, तथा च वैशेष्यात्ताद इति न्यायेनाविद्याप्राचुर्यात् श्रविदा मिश्रितेषु सर्वक्शेष्वविद्याभेदवस्टमुपपत्रं यथा सुवर्णदिषु पार्थिवांशमिश्रितेषु तेजेावेशेष्यात्तेनाभेदत्वमिति भावः । अविव मूलं दुःखबीजम् इत्युक्तमिदानीं पञ्च क्लेशान् पञ्चभिः सूत्र क्रमेण लक्षयति । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥
अनित्यादिचतुष्टये क्रमेणा नित्यादिबुद्धिरविद्येत्यर्थः । अविद्याचतुष्टयं क्रमेण व्याचष्टे उदाहरणानि च दर्शयत । अनित्यति । अनित्यत्वमसत्त्वं कालनिष्ठाभावप्रतियोगित्वमिति यावत् । तस्यैव स्वरू पाख्यानं कार्यइति । नित्यत्वं च सत्त्वम् । तदुक्तं गारुडे ।
४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org