________________
योगवार्तिकम् ।
श्लोकार्थः 1 ननुगमानुमानपि प्रमाणत्वात्ताभ्यामेव तदर्थतत्त्वं गृह्यतां किं येोगेनेत्याशङ्कानिरासायोत्तरं सूत्रं प्रवर्त्तते तयोजयति । सा पुनरिति । श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात ॥ ४८ ॥
८२
सा तु समाधिसामान्यजा प्रज्ञा श्रुतानुमानरूपप्रज्ञाभ्यां श्रवणमनाभ्यामन्यविषया अतिरिक्तविषया विशेषार्थत्वात् विशेषोऽय विषयो यस्याः सा तथा तत्त्वादित्यर्थः । समाधिप्रज्ञायाः श्रवणमननाभ्यामतिरिक्तविषयत्वं विवृणोति । श्रमागमेति । नहि विशेषेणेति । पदार्थतावच्छेदकरूपेणैव पदार्थः शाब्दबोधे भासते ऽन्यथातिप्रसङ्गात् । पदार्थतावच्छेदकं तु घटत्वादिसामान्यमेव न तु तत्तद्वशेषास्तेषामानन्त्येन सर्वेषामेकदानुपस्थितस्तत्तद्रपैः शक्तिग्रहासंभवात् विशेषाणामन्यान्यं व्यभिचाराच्च सामान्यतः श्रुतेप्यर्थं विशेष संशयदर्शनाच्चेति । इत्युक्तमिति । अनुमानमित्यस्य विशेषणम् । अत्र हि व्यापकतावच्छेदकेन गतित्वादिसामान्येनैवानुमानं भवति न तु क्रियादिगतविशेषरूपैरिति । अनुमानेन चेति सामान्याहार इत्युक्त इत्यनुषङ्गः । ननु श्रनुमानागोचरोऽपि विशेष लौकिकप्रत्यक्षेणैव ग्राह्योऽस्तु किं योगजप्रत्यक्षेणेति तत्राह । न चास्येति । नन्वेवं तस्य विशेषस्याऽप्रामाणिकत्वात् प्रभाव एवास्त्वित्याशङ्कां प्रतिषेधति । न चास्य विशेषस्येति । नहि निर्विशेषं सामान्यमस्तीतिन्यायेन सर्वत्रैव वस्तुनि विशेषसिद्धेरिति भावः । अतः परिशेषात्समाधिप्रजायाह्म एव स विशेष इत्युपसंहरति । इति समाधीति । स्थूलस्य विशेषः कदा चिल्लैाकिकप्रत्यक्षगोचरोऽपि स्यादिति स्थूलं परित्यज्य भूतसूक्ष्मगत इत्युक्तम् । पुरुषगतो वेति । एतेन पुरुषेष्वपि विशेषादिधर्मः स्वीकृतः धर्मनिषेध विशेषगुणद्रव्यादिपरः । अथ वा स्वस्वोपाधिप्रतिबिम्बा स्वातीतानागतवर्तमाना मुक्तामुक्तसाधारणाखिलपुरुषेध्वन्योन्यं विशेष इति बोध्यम् । स्यादेतत् । व्यवहितादिषु सत्रिकर्ष यभावात्कथं समाधित्यग्राह्यत्वमपि स्यात् । अथ योगजधर्मस्यापि सत्रिकर्षत्वं कल्य्यमिति चेच । संयोगादिभिरननुगमात् प्रत्यक्षे विषयस्य कारणत्वेनातीतादिप्रत्यक्ष
A
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org