________________
योगवार्तिकम् । आमनि बुद्धा वर्ततइत्यध्यात्म तादृशः । प्रसादशब्दार्थ विवृणाति । भूता. पैति । यथार्थविषयकः क्रमाननुरोधी युगपत्सर्वार्थग्रही स्फुटप्रत्यक्षः स प्रजाख्य आलेाक इत्यर्थः । अत्रैव परमर्षिगाथामुदाहरति । तथा चेति । तरति शोकमात्मविदिति अतेरशोच्यः अहं दुःखी पापीत्यादिरूपैः स्वस्याशोच्यः सन् सर्वानेव जनान् शोचतो दुःखितान पति । स्वयं शोच्यो हि पुरुषः स्वापेक्षया कं चित् सुखिर्नामव पश्यति मौढ्यात् । अशोच्यस्तु परमार्थतो दुःखसमुद्रमनं सर्व जीवजातं दुःखितमेव पर्यात अमूढत्वादित्यर्थः । लोकानन्तरमितिशब्दः पादपरणार्थः । तथा च निर्विचारवेशारदो जाते स्वयमेव प्रकृतिपुरुषविवेको वा परमेश्वरतत्त्वं वा साक्षात क्रियते न तु तत्साक्षात्काराय पुनर्योगापेर्तेति निर्विचाराया उत्कर्षः । पूर्वसत्रोक्तसबीजसमाधौ जायमानायाः समापत्त्याख्यायाः प्रज्ञाया अन्वया तान्त्रिको संज्ञामपि दर्शयति ।
ऋतम्भरा तत्र प्रज्ञा ॥ ४८॥ तस्मिनिति । तत्रेत्यस्य विवरणं तस्मिन्समाहितचितस्येति पूर्वात सबीजयोगइत्यर्थः । न चाव्यवहितसूत्रोक्तं वैशारा प्रसादो वा कथं तत्रे. त्यनेन परामृष्यतइति वाच्यम् । द्वितीयसूत्रतो ऽत्र समाधिप्रज्ञासामान्यपरत्वस्य लप्स्यमानत्वात् । सुगममन्यत् । ननु संज्ञाकथनमात्रेण किं प्रयोजनमित्याशड्याह । अन्वति । विपर्यासरूपज्ञानं यद्यपि सवितर्कयोगजनज्ञायां शब्दार्थज्ञानविकल्पेस्ति तथापि ऋतंभरजातीयत्वस्यैवात्र विनितत्वात् न तस्यामव्याप्तिः, साजात्यं च समाधिजप्रज्ञात्वेन । अथ वा तत्र समाहितचित्ते जायमाना या प्रज्ञा सैव ऋतम्भराच्यतइति सूत्रार्थः। किकनाने ऽविद्यालेशसंपर्कावश्यंभावादिति योगकाले प्रकृष्टा प्रज्ञा भवतीत्यत्र स्मृति प्रमाणात । तथा चेति । ध्यानस्य चिन्तनस्य योऽभ्यासः पौनःपुन्यं तत्र यो रस आदरस्तेन, तथा च श्रवणमननिदिध्यासनैस्त्रिभिह. तुभिः सबीजयोगकाले प्रज्ञा प्रकल्पयन् प्रकर्षण विपासाहित्येनोत्पादयन् तन्मजातः परवैराग्यद्वारा वक्ष्यमाणमुत्तमयोगं निर्बीजं लभतइति
६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org