________________
८०
योगवार्तिकम् । रखान्तरभेदेनैव सविचारनिर्विचाररूपतो द्विधा प्रोक्त इत्यतो वितर्कानुः गतादिरूपैः पूर्व स संप्रज्ञातयोगश्चतुर्धा उपसंख्यातः परिगणित इत्यर्थः । के चित्तु सूत्रस्य एवकारो भित्रक्रमः । तथा च ताः सवितर्कनिर्वितर्कसविचारनिर्विचाररूपाश्चतस्रः समापत्तयः सबीजसमाधेरेवेति सूत्रार्थः, तेन न ग्रहीत्रादिसमापत्तेरपि सबीजत्वं भाष्ये प्रामुक्तं विरुध्यतइत्याहुः । तत्र । यहीत्रादिसमापत्तेः सबीजत्वानुक्त्यात्र सूत्रकारस्य न्यूनतापत्तेः । एवकारवैयाच्च । यथाक्रमस्यैव एवकारस्योपपत्ता भित्रक्रमत्वानी. चित्याच्चेति । यच्चान्यत्तरुक्तं याविषये स्थलमूहमभेदेन सवितर्कादिरूपाश्चतस्रः समापत्तयः ग्रहणाख्येषु चन्द्रियेषु सानन्दनिरानन्दरूपे द्वे समापत्ती ग्रहीतृषु च सास्मिनिरस्मितरूपे द्वे समापत्ती इत्यष्टी समापत्तयो बेोध्याः युक्तिसाम्यादिति,तदपि न । प्रमाणादर्शनात् । आनन्दानुगतास्मितानुगतयोनिरानन्दनिरस्मितत्वरूपविशेषासंभवाच्च । आनन्दो हि ल्हादमात्रोऽस्मिता च चैतन्यमात्रसंविदिति भाष्यकृता प्रोक्तम् । न विन्द्रियं हादशब्देन व्याख्येयं, लक्षणाप्रसङ्गात् । नापि अहङ्कारोपरक्तचैतन्यमस्मिताशब्देन व्याख्येयं लक्षणापत्तेः । अतः कथं ल्हादवतः संप्र. ज्ञातस्य ल्हादशून्यत्वं कथं वा विविक्तचिन्मात्रसंविद्युक्तस्य संप्रज्ञातस्य तच्छ्न्य त्वमिति दिक् । तस्मादवान्तरभेदेन पञ्चैव समापत्तयः, ग्राह्मयहणयोः स्थलसूक्ष्मभेदेन सवितकोयाश्चतस्रः पञ्चमी च यहीवृष्विति संप्रज्ञातयोगस्त्वानन्दानुगतमादायावान्तरभेदेन पोवेति । उक्तासु समा. पत्तिषु निर्विचारायां विशेषं कं चिदाह ॥
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः ॥ ४७ ॥
सामान्यतो वैशारामादौ व्याचष्टे । अशुद्धेति। रजस्तमोद्धिकारणं पापादिरशुद्धिः सैवावरणलक्षणो मलस्तस्मादपेतस्र्योत हेतुगर्भविशेषणम् ।। प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिरूपसत्त्वस्य कारणापायादेव रजस्तमोभ्यामनभिभूतोऽतः स्वच्छः ध्येयगताशेषविशेषप्रतिबिम्बोद्दाही स्थितिप्रवाह एकायताधारा चित्तस्य वैशारदामित्यर्थः । समयसूत्रार्थ व्याचष्टे । यति ।
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org