________________
योगवार्तिकम् । __इत्यादिस्मृतिभिः । जीवानामधिष्ठानसंयोगमात्रम् अनुमतिस्तु पूर्वकल्पीयकामकादिरूपेति दिक् । तदेवं ग्राह्यग्रहणसमापत्त्याः स्यलसूक्षमविषयभेदेन विशिष्टाविशिष्टरूपतश्चतुर्विविभाग उक्तः ग्रहीत. समापत्ती च यः सविकल्परूपो विशेषः स एतास्वेव चतसृष्वन्तर्भूतः चेतनोपरागणैवाचेतनेषु योगस्य व्यवस्थापितत्वात् । अतो ग्रहीतृसमा. पत्ता सविकल्पाविकल्पादिविभागो नोक्तः । वितर्कत्यादिसूत्रेण पूर्व संप्रज्ञातस्यावान्तरविभाग एव कृत इदानीं यथे.तसमापत्त्याख्यकार्यमुखेन सबीजपरिभाषापूर्वकं संप्रज्ञातस्य सामान्यलक्षणमनेनैव प्रसङ्गेनाह ॥
ता एव सबीजः समाधिः ॥ ४६ ॥ ता एव ग्रहीतग्रहणग्राहोषु समापत्तय एव सबीजः समाधिः संप्रज्ञातयोग इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतुत्यायोगस्य समा. पत्तित्वमुक्तम् । योगे स्वतोऽवान्तरविशेषाभावादिति । ननु यहीतृग्रहणगाह्मसमापत्तिर्भािर्वतर्कविचारास्मितानुगतास्त्रयः संप्रज्ञाता एव संयमन्ते न पुनरानन्दानुगत इति कथन्ता एवेन्यवधारणमिति चेत्र । आनन्दस्य बुद्धिधर्मत्वेन ग्राह्ममध्ये प्रवेशात् । ननु दुःखबीजसंस्कारहेतुतया समापत्तय एव सबीजाः न तु वृत्तिनिरोधात्मको योग इति कथ. मुच्यते ता एव सबीजयोग इति तत्राह भाष्यकार: । ताश्चतस्र इति । बहिर्वस्तन्यनात्मधाः संस्कारधादयो दुःखबीजानि जायन्ताभ्य इति बहिर्वस्तुबीजाः, संप्रज्ञानिष्ठाया अपि संस्कारहेतुत्वात् धर्ममेघ. त्वाच्च । तथा च वितर्कादिसूत्रोक्तरीत्या चतस्रः प्रकृते तु विधा विभ. तास्ता ग्रहोत्रादिविर्षायकाः समापत्तयो बहिर्वस्तुबीजा इत्यतस्ताभिः संबन्धात्समाधेः संप्रज्ञाताख्यो वृत्तिनिरोधो ऽपि सबीज उच्यतइत्यर्थः । ननु स्यूलसूत्मसमापत्तेरेव चतुर्विधत्वादानन्दास्मितासमातिभ्यां सह षट् समापत्तयो भवन्ति तत्कथमुच्यते चतस्र इत्याशङ्कामपाकरोति । तत्र स्थल इति । तत्र चतसृषु समापत्तिषु मध्ये स्थलार्थ एक एव समाधिरवान्तरभेदेनैव सवितर्कार्नार्वतर्करूपतो द्विधा । तथा सूक्ष्मे प्येक एव समाधि.
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org