________________
योगवार्तिकम् । वेव प्रकटीभावात् । यथा यत्र काण्डादिभिर्बीजगतविशेषाभिक्तिनाङ्करमात्रेणेति । अलिङ्ग प्रधानम् । अकार्यत्वेन कस्याप्यननुमापकत्वादिति । अलिङ्गपर्यवसानत्वं व्याचष्टे । न वा लिङ्गादिति । चोदति । नन्विति । ननु पुरुषः प्रकृत्यपेक्षयापि सूत्मोऽस्ति निर्धर्मकत्वादिति पूर्वपतं परिहरति । सत्यमिति । यथोपादानतया लिङ्गापेक्षितं सौम्य प्रधानस्यास्ति नैवं पुरुषस्य तस्यापरिणामित्वात उपादानतया च सूत्मत्वमत्र विवक्षि तमित्याशयः । ननु यदि पुरुषः कारणं न भवति हि 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्यभिसंविन्ति तद्ब्रह्म' 'तमेव चायं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी'त्यादि श्रुतिस्मृति शविरोध इत्याशङ्कां परिहरति । किं तु लिङ्गस्येति । हेतुस्तु भवति किन्तु लिङ्गस्यान्यायकारणमुपादानकारणं पुरुषो न भवतीति व्युत्क्रमेणान्वयः । तत्र परमात्मनो ऽधिष्ठातृत्वेन निमित्तकारणत्वं 'मया ऽध्यक्षण प्रतिः सूयते सचराचरम्' इति गीतावचनात् ।
प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते । नित्ययायापिनोश्चैव जगदादा महात्मनोः ॥ तत्क्षोभकत्वाद् ब्रह्माण्ड सृष्टी हेतुर्निरञ्जनः ।
अहेरिति सर्वात्मा जायते परमेश्वरः ॥ इत्यादि सकलस्मृतिषु तथा निर्णयाच्च । यत्तु ईश्वरस्याधिष्ठानत्वरूपमुपादानत्वं यतो वा इमानि भूतानि जायन्तइत्यायुक्तश्रुतिस्मृ. त्योर्गीयते । आकाशस्य वायपादानवत्, तदप्यत्र दर्शननिमित्तकारणता. मध्यएव प्रवेश्यते पुरुषाणां विकारित्वभ्रमनिरासाति पुरुषार्थ प्रकृतेः प्रवृत्त्यभ्युपगमेन च जीवपुरुषाणामपि महदाखिलष्टिहेतुत्वं संयोग मात्रेण नोपादानत्वेन । तथा चोक्तम् ।।
बुयादयो विशेषान्ता अव्यक्तादीश्वरेच्छया । पुरुषांधिष्ठितादेव जजिरे मुनिपुंगवाः ॥ सत्त्वं रजस्तम इति प्रकृतेरभवन गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org