________________
योगवार्तिकम् । वयाख्येयम् । उक्तस्य समापत्तिचतुष्टयस्य विषर्यावभागमाह । तर्जत । महत् स्यूनं केवलवितिरिति यावत् । तेन्द्रियाणां भूतपरमाणूनां च संग्रहः । भूतपरमाणनांच सूक्ष्ममध्ये प्रवेशो वक्तुं न शक्यते, आगामिसूत्रे पार्थिवस्याणार्गन्धतन्मात्रं सूक्ष्म इत्यादिना तन्मात्रादीनामेव सूक्ष्मत्वस्य वयमाणत्वात् । सत्मत्वं च तत्त्वान्तरकारणत्वं तच्च जलादिचतुष्टयव्यावृत्त्यर्थ बहिरिन्द्रियग्राह्यगुणराहित्येन विशेषणीयम् । वस्तुतस्तु अष्टप्रकतिसिद्धान्तादतान्युत्तरभूतेष्वाधारकारणान्येव न तु प्रकृतयः, अतो ऽत्र तत्त्वान्तरप्रकृतित्वमेव सूत्ममिति । ननु शब्दार्थज्ञानविकल्पसंकीर्णत्वमेव कथमेतयैवेत्यनेन नातिदिश्यते तत्राह । एवमुभयोरेतयैव निर्वित
या विकल्पहानियाख्यातेति । एवं स्वरूपमिव विकल्पहानिरपि यथो. तविकल्पराहित्यपि उभयोः सविचारनिर्विचारयोरेतयैव पक्तिया निर्वितर्कया यथोक्तविकल्पशून्यया सूत्रकारेण व्याख्यातप्रायेत्यर्थः । पूर्व भूमिकायां त्यक्तविकल्पस्योत्तरभूमिकायामसंभवादिति । सूक्ष्मविषयेत्युक्तं, तत्र सूक्ष्मो विषयः किंपर्यन्त इत्याकाङ्क्षायामाह।
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
सूत्मश्चासौ विषयश्चेति सूक्ष्मविषयः, अलिङ्गं प्रकृतिस्तत्पर्यन्तेष सूविषयतेत्यर्थः । तत्र स्थलमारभ्य प्रतिपर्यन्तस्य सूक्ष्मतायां क्रममाह । पार्थिवस्येति । स्थलकाष्ठाः पञ्चविधा अणवस्तत्र पार्थिवावपेतया गन्धतन्मात्रं समापत्तेः सूमो विषयः । यद्यपि पार्थिवाणुर्जलविशिष्टगन्धतन्मात्रारब्धस्तथापि गन्धतन्मात्रस्य प्राधान्यात तदेव पार्थिवाणोः सूक्ष्ममुक्तम् । एवमाप्यादीनां त्रयाणां पूर्वपूर्वभूतविशिष्टरसादितन्मात्रकार्यत्वे ऽपि आकाशाणाश्चाहङ्कारविशिष्टशब्दतन्मात्रकार्यवपि प्राधान्यादेकैकतन्मात्रमेव सूक्ष्ममित्युक्तमिति वेदितव्यम् । तेषामहङ्कार इति । तेषां पञ्चतमात्राणामहङ्कारः सूक्ष्मः कारणत्वात् । अत्र च तन्मात्रैरिन्द्रियाण्युपलक्ष. णीयानि । अस्यापीति । अहङ्कारस्यापीत्यर्थः । लिङ्गमानं महत्तत्त्वं तद्धि स्वकारणस्य प्रकृतेरनुमापकमात्रमङ्कुरवत् । प्रकृतिगर्तावशेषाणामहंकारादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org