________________
योगवार्तिकम् । यात प्रायेणेत्युक्तम् । अवयव्यभावे संघाताश्रितत्वेन परैरभ्युपगतस्य ज्ञानस्यापि रूपादिवन्मिथ्यात्वे सर्व ज्ञानं भ्रमो ज्ञानत्वादित्यनुमान संभवाच्चेति । स्वसिद्धान्तमुपसंहरति । तस्मादिति । सवितायाः कदा चित विकल्पेनाप्युपपत्तिरित्याशयेन निर्वितीया इत्युक्तम् । तदेवं स्थलविषये सूत्रद्वयेन समापौर्द्वधा विभागं कृत्वा सूविषयपि तस्या | द्वैविध्यतिदिति । एतयैव सविचारा निर्विचारा च समविषया व्याख्याता ॥ १४ ॥
एतया सवितर्कनिर्वितर्करूपया स्थलविषयकसमापत्त्या समवि षया ऽपि सविचारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता अर्थोपरागा. नुपरागसाम्येनेत्यर्थः । वितर्कविचारेत्यादिसत्रे सत्मविषयकाभोगो विचार इत्युक्तं स एवात्र सविचारनिर्विवाररूपेणात्रोच्यते इति स्मर्त्तव्यम् । कार्यायुपरागानुपरागयुक्तां समापत्तिं द्विधा विभजते । तत्र भूतसूक्ष्मेति । अत्र भूतशब्द इन्द्रियाणामप्युपलक्षकः सामान्यत एव सूक्ष्मविषयत्वे. नास्याः समापत्तेः भाष्ये व्याख्येयत्वात् । भूतेन्द्रियाणां यत्सम कारणं तन्मात्रादिप्रकृतिपर्यन्तं 'सूक्ष्मविषयत्वं चालिङ्गपर्यवसान' मित्यागामिसू. त्रात तेषु वर्तमानधर्मविशिष्टेषु तथा देशकालनिमित्तैर्विशिष्टतया अनुभूयमानेषु या समापत्तिः सा सविचारेत्युच्यतइत्यर्थः । अत्र देश उपर्यधःपार्खादिः कालो वर्तमानादिः निमित्तं परिणामप्रयोजकः पुरुषार्थविशेष इति पूर्ववदेवात्राप्यवयवातिरिक्तस्तन्मात्रादिरूपोऽवयवी समापत्ते. विषय इत्याह । अत्रापीति । उदितो वर्तमानः, उपतिष्ठते आरूढं भवति। सविचारां व्याख्याय निर्विचारां व्याचष्टे । या पुनरिति । या तु सर्वथा सर्वैः स्वरूपैः सर्वतो देशकालादानवच्छेदतः समापत्तिः शान्तादिव्यपदेश्यधर्मा. नच्छिचेषु अतीतवर्तमानभविष्यमैश्नच्छित्रेषु अतीतवर्तमानभूतसूक्ष्मे. घु जायते सा निर्विचारा अनच्छिन्नशब्दस्यासंबद्धार्थनिरासाय विशेषणद्वयं सर्वधर्मत्यादि । सर्वधर्मानुगतेषु सर्वधर्माणामाश्रयेषु चेत्यर्थः । निर्वितर्कसाम्यमस्याः प्रतिपादति । एवं स्वरूपं हीति। पूर्वसूत्रानुसारेणैत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org