________________
योगवार्तिकम् । सत एवाभिव्यक्तिरित्येव सत्कार्यवादिनो नियमः । अभिव्यक्तश्चाभिव्यक्यन्तरास्वीकारेण तस्या असत्या एवोत्यादपि न तिः । कार्याणामना. गतावस्यैवाभिव्यक्तरप्यनागतावस्था से व चाभिव्यक्त्युत्पत्ती नियमिका अतः शशशृङ्गादिवलक्षण्यम् । यथा परैरुत्पत्तेरुत्पत्तिरभावे चाभावः स्वरूपमेवेष्यते तथैवाभिव्यक्तरभिक्तिः स्वरूपमेवेत्यस्माभिरप्युपगन्तव्यम् । घटादेरतीतानागतावस्ये तदभिव्यक्तरप्यतीतानागतावस्थे इति । अथैवमभिव्यक्तिरपि घटस्वरूपमेवास्त्विति चेत्र । अतीतादावस्यघटेनाभिव्यक्तिव्यवहारप्रसङ्गस्योक्तत्वादिति दिक। यत्तु वैशेषिकाः प्रागभावमेव कार्यात्पत्तिनियामकं कल्पन्ति । तदसत् । अभावकत्यनापेक्षयाभावकल्पने लाघवात् । भावानां दृष्टत्वात अन्यानपेक्षत्वाच्च । अपि चाभावेषु स्वतो. विशेषे भावत्वात्तिः । प्रतियोगिरूपविशेषश्च प्रतियोग्यसत्ताकाले नास्ति अतोभावस्याविशिष्टतया सर्वत्र सर्वात्पत्तिप्रसङ्ग एवेति । अवयवेभ्यो वि. ज्ञानाच्चातिरिक्ततया हेतुभतं ताभ्यां वैधय॑जातमवर्यावनि दर्शयति । योसार्वाित । डिशेषणानि यथासंभवमवयवज्ञानाभ्यां वैधाणि, वैशेषिकैस्त्यणुकशब्देनोच्यते यः परिणामविशेषः स एवात्राणीयानित्युक्तः कार्येषु परमसत्मत्वाभावादिति । अवयवादिविलक्षणजलाहरणादिव्यवहारकारितयातिरिक्तोवयवीति प्रतिपादयति । तेनावयविनेति । अवयवातिरिक्तो ऽवयवी नास्तीत्यवयवा एव निर्विकल्पसाक्षात्कारविषय इति वैनाशिकमतमपाकरोति । यस्य पुनरिति । यस्य मते स प्रचनिमित्तको विशेषो ऽवयव्याख्यो ऽवस्तुकस्तुच्छः सत्मं चावयवाख्यं कारणं न प्रत्यक्षगोचरं तस्य मते ऽवयव्यभावात प्रायेण सर्वमेव मिथ्याज्ञा मत्यायातम् । यतो तिद्पप्रतिष्ठमेव मिथ्याज्ञा मति, तदा च सर्वस्य मिथ्याज्ञानत्वे सम्यगज्ञानमपि किं स्यात्, न स्यादेव विषयाभावेन क्वापि ज्ञानस्य सद्विषयकत्वासिटेरित्यर्थः। तत्र हेतुः यदिति । नन्ववयवज्ञानस्य सम्यगज्ञानत्वं स्यादि. ति चेत्र । सतमं चेत्यादिना अवयवानामप्रत्यक्षत्वस्योक्तत्वात् । अप्रत्यक्षेष्ववयवेषु लिईचावयव्येव तस्याभावात पावयवज्ञानं प्रमाणाभावादेवासिमित्याशयः । ज्ञानज्ञानस्य सम्यगजानत्वं कदा चित् स्यादित्याश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org