________________
७४
योगवार्तिकम्। एव दुग्धजलयोरिवेति । एतत्सर्व परिणामसूत्रे विशिष्य प्रतिपादयिष्यति भाष्यकारः । ननु यावयवी स्वीकृतर्हि तस्यैकावयवनाशे नाशापत्त्या ऽनुपलब्धिप्रसङ्गः । किं चावविनो नित्यत्वे सर्वदा कार्यकारिताप्रसङ्गः, अनित्यत्वे ऽसदुत्पादतः शशङ्गापि कारणव्यापारादुत्पोतेत्याशङ्कामपाकति। स चेति । स च स्यूलावयवी स्वकारणानां भूतसूक्ष्माणां साधारणः प्रत्येकं परिसमाप्नोति न तु द्वित्वादिवयासज्यत्तिः, एकावयवव्यवधानेप्यप्रत्यक्षत्वप्रसङ्गात् । अत एकावयवनाशेप्यवयवान्तरे अवयव्यवस्थानात्तदुपलब्धिः । अवयविभागविशेष एव चावविनाशकः । स च विशेषो जातिरूपः फलबलात् कल्प्यतइति भावः । तथा आत्मभूतः सदैव भूतमूमेष्वनुगतः नातः शशादौ शृङ्गायुत्पत्तिप्रसङ्गः । तत्र प्रमाणमाह। फलेन व्यक्तनानुमित इति । अभिव्यक्तिलक्षणकार्यानुमितः । असदभिव्यक्ती सर्वत्र सर्वाभिव्यक्तिप्रसङ्गात् । ननु तर्हि सर्वदैवाभिव्यक्तिः कुतो न भर्वात तत्राह । स्वव्यञ्जति। स्वाभिव्यक्तिहेतुर्यत्कारणं तदेवाज्जनमभिव्यज्जनं कारणं यस्य तथाभूतः सनाविर्भवति वर्तमानावस्यां प्राप्नोति न सर्वदा । तथा धर्मान्तरोदयकाले च मुद्गरपातादिना तिरोभवति अतीतावस्यां प्राप्नोति। स एव अवयवानां धर्मावयवीत्युच्यते इत्यर्थः । अतो नोक्तशङ्कावकाशः। कार्यनित्यत्वेप्यभिव्यक्तस्यैव कार्यस्य स्वकार्यकारित्वादिति भावः । स्यादेतत् । अभिव्यक्तिपि नित्या अनित्या वा । आदो सर्वदेवाभिक्तिकार्यप्रसङः । अन्तेवयव्याटेरेवानित्यत्वमभिव्यक्तिवदस्तु व्यर्थमभिव्यक्तिकल्यनमिति। उच्यते। अतीतानागतावस्थावत्त्वस्वरूपमनित्यत्वं घटादावभिव्यक्ती चेष्यतएव अादान्तयोः कार्यस्यात्यन्तासत्त्वप्रतिषेधाय ध्वंसादिप्र. तियोगित्वस्यैव निषेधात् अतीतानागतावस्थयोध्वंसप्रागभावस्यलाभिषेकमात्रएवास्माकं विशेषात् । अभिक्तिकल्पना च न व्या घटोनागतो घटो ऽतीत इतिव्यवहारवत् घटो वर्तमान इति व्यवहारस्यापि घटमात्रेणासंभवात घटस्यावस्थात्रयसाधारण्येनातीतादिकालेपि वर्तमानत्वव्यवहारप्रसङ्गात । न चैवमभिव्यक्तरप्यवस्थात्रयकल्पना भवत्येवेति वाच्यम् । बीजाङ्कदिवत् प्रामाणिकत्वेनादोपत्वस्य सांख्यसूत्रेणोक्तत्वात् । किं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org