________________
योगवार्तिकम् । मात्र इत्यतः संकेतस्मृतः तन्मलकज्ञाने चाभेदविकल्प बार्गिक इति । शब्दविकल्पशून्यत्वे हेतुमुक्त्वा ज्ञानविकल्पशन्यत्वे हेतुमाह । स्वमिवेति । दवकारो भित्रक्रमेण त्यतिपदानन्तरं योजनीयः, त्यागसादृश्यं चायहामति । तृतीयपदस्यार्थमाह । पदार्थमात्रेति । तस्याप्यर्थमाह । ग्राह्मस्वरूपापनेव भवतीति । सा निर्वितर्केति । एवं निभासा या समापत्तिः सा निर्वितर्कत्यर्थः । तदेवं सूत्राभ्यां प्रतिपादिती सवितर्कीवितर्कयोगी विकनिर्विकल्पशब्दाभ्यामपि शास्त्रेपच्यते । वितर्कविचारेत्यादिसत्रे च यः स्यूलविषयकाभोगो वितर्क इत्युक्तं स एवात्र सवितनिर्वितर्क समापत्तिरूपेण द्विधोक्तइति । नन्वस्य निर्वितर्कसाक्षात्कारस्य विषयः किमवयवाः किं वावयवी, आने वत्यमानिर्विचारसमापत्त्या सहैकविषयत्वापत्तिः । अन्त्ये ऽवविनः कल्पितत्वेन तद्गोचरनिर्वितकाया विकल्पशून्यत्वानुपपत्तिरित्याशयावविनं व्यवस्थापयन् अवर्याविषयकत्वमेवास्य वृद्धवाक्यादवधारयति । तथा चेत्यादिना लोक इत्यन्तेन । व्याख्यातं पूर्वाचारिति शेषः । तस्या निर्वितीया गवादिघंटादिवा लोक आलम्बनमित्यन्वयः । नन्ववर्यावनि किं प्रमाणं तत्राह । एक बुद्ध्यपक्रम इति । एका गारिति बुद्धिमुपक्रमते आरभतइत्येकबुद्धपक्रमः । अतो नावयवानामनेकतया अवयवव्यवहारनिर्वाहकवमिति भावः । नन्वेवमप्येकप्रत्ययानुरोधादेकं विज्ञानमात्रमेवावयवव्यवहारहेतुरस्तु तत्राह । अर्थात्मेति । अर्थात्मा दृश्यस्वरूपः । विज्ञानमात्रत्वे स्वस्य स्वदृश्यत्वानुपपत्तिः कर्मकर्तृविरोधादिति भावः । नन्वेवमवयवेभ्यो ऽवयवनो ऽतिरेके कपालं घटो जात इत्यादिरूपोवयवावविनोरभेदप्रत्ययो न स्यादित्याशङ्कामपाकरोति । अणुप्रचर्यावशेषात्मेति । अणनामेव प्रचयाख्यसंयोनिमित्तको यो विशेषः परिणामरूपस्तत्स्वरूप इत्यर्थः । तथा च सामान्यविशेषयोर्भेदाभेदाङ्गीकारात् अभेदप्रत्ययोप्युपपन्न एवेति भावः । न च भेदाभेदयोर्विरोध इति वाच्यम् । भेदस्यान्योन्याभावरूपत्वात अभेदस्याविभागरूपत्वादिति । अयं चाविभागो न लक्षणानन्यत्वं लक्षणभेदकालेपि अभेदप्रत्ययात् किं त्वाधाराधेयभाववस्वरूपसंबन्धविशेष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org