________________
| ७२
योगवार्तिकम् । सविता भवति । यदा पुनरर्थमात्रादरादर्थमात्रप्रवणेन चेतसा संकेतस्मृ. तिसत्यज्यते तदा समाधौ तन्मलको विकल्पो न जायतइति निर्वि. तको भवतीति । दिदमाह । शब्दसंकेतेति । शब्दसंकेतस्य स्मृतेः परशुद्धिरपगमस्तस्यां सत्यां तत्स्मृतिनिमित्तकेन श्रुतानुमानज्ञानकालीनविकल्पेन शन्यायां समाधिप्रज्ञायामर्थस्वरूपाकारणेवावधार्यतइत्यादिरर्थः। आरोपगन्धस्यापि संपर्को नास्तीति प्रतिपादनाय स्वरूपमात्रेणास्थितार्थ इत्युक्तम् । परमिति । आरोपसंपळभावात भावः । अगृहीतहित्वं निर्वितर्कसमापत्तेः प्रामाण्यप्रयोजकं दर्शयत । तच्चेत्यादिना दर्शन मितीत्यन्तेन । श्रुतानुमानयोः श्रवणमननयोर्बीजं बीजशब्दार्थ व्याचष्टे । तप्त इति । प्रभवतः प्रकर्षण भवतः गुरुणा ऽशेषविशेषसाक्षात्कारं विना असंदिग्धाविपर्यस्तवस्तुस्वरूपप्रतिपादनासंभवात् । अतः सवितकोनधिगतोपि विशेषो ऽस्या विषय इत्यर्थः । नन्वेवं सर्वजगुरुणा श्रुतिस्मृतिभ्यामेवाशेषविशेषप्रतिपादनं स्यादितीयं व्या निर्वितर्कसमात्तिरिति तत्राह। न चेति । सहभूतं तत्कालीनं गुरोविशेषजवेपि स विशेषः शब्देनाशेषो वक्तुं न शक्यते इतक्षीदिविशेषवत् 'इदं तदिति निर्देष्टुं गुरुणापि न शक्यत' इति स्मृतेः । अतः सर्वज्ञवाक्यापि निर्विकल्पकसमा. पत्तिसमानाकारं ज्ञानं न संभवतीत्यर्थः । ततः किमित्यत आह । तस्मादिति । संकीर्ण गृहीतमात्रादवगाहि। तदेवमुत्तरसूत्रस्य लक्ष्यमवधार्य सूत्रमवतारर्यात । निर्वितर्काया इति । स्पष्टम् ॥ स्मृतिपरिशुद्ध स्वरूपशन्येवार्थमाचनिभीसा निर्वितकी ॥४३॥
___ यतः स्मृतिपरिशुद्धा सत्यां जायते तथा स्वरूपशुन्येव भवति अतोर्थमात्रस्य निभीसो यत्रेत्यर्थमात्रनिर्भासा अखिलविकल्पशून्या या समा. पत्तिःसा निर्वितर्कत्यर्थः । पदानि क्रमशो व्याचष्टे । या शब्देति । शब्द. संकेतात श्रुतानुमानरूपज्ञाने या विकल्परूपा स्मृतिः चिन्ता सवितर्ककाले ऽप्यनुवर्तते तदपगमे सतीत्यादयपदार्थः । शब्दशंकेतस्यात्र स्मृतिहेतुत्वं स्वगोचरज्ञानद्वारा बोध्यम् । संकेतश्च शब्दार्थयोः कल्पिताभेद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org