________________
योगवार्तिकम् ।
दृष्टमित्यन्तेन । इत्यविनिर्भागेन एवमभेदेन विभक्तानां वस्तुतो भिचानामपि ग्रहणं विकल्पाख्यं लोके दृष्टं पूर्वोक्त विकल्पलत्तणाक्रान्तत्वादित्यर्थः । ननु वस्तुन्यत्वे सति विकल्पः स्यात् प्रतीतिबलात्त्वभेदोत्र वस्तुसदेव भवतु तत्राह । विभज्यमानाश्चेति । अन्वयव्यतिरेकाभ्यां परीक्षकैर्विभज्यमाना विविच्यमाना अन्येर्थज्ञानधर्मभ्यां भिन्नाः शब्दधर्मीस्तारत्वमन्दत्वादयः । एवमर्थधर्माः जडत्वमूर्त्तत्वादयः शब्दज्ञानधर्माभ्यामन्ये । एवं ज्ञानधर्माः प्रकाशा मूर्त्तत्वादयः शब्दार्थधर्माभ्यामन्ये । इत्ययमेतेषां शब्दार्थज्ञानानां विभक्तो ऽन्यान्यं भित्रः पन्याः स्वरूपभेदोनयनमार्ग इत्यर्थः । समापत्तिरेव विकल्परूपेत्यतो विकल्पसंकीर्णत्त्वानुपपत्तिरित्याशयेनान्यथा सूत्रार्थं व्याचष्टे । तत्रेति । तत्र गवादौ स्यलभूतेन्द्रियेषु समापत्रस्य समाहितस्य योगिनः समाधिप्रज्ञायां समारूढो यो गवादार्थः स यदि शब्दार्थज्ञानविकल्पेन गौरियं भासते इत्येवं शब्दार्थज्ञानानामभेदभ्रमेणानुविद्धा विषयीकृतो भवति तदा सा संकीर्ण विकल्पमिश्रिता विकल्पविषयीभवदर्थविषयणीति यावत् । समापत्तिः सवितर्कसंज्ञा भवतीत्यर्थः । अत्र हि गौरयमित्यंशे शब्दार्थयेारभेदविकल्पः । भासतइत्यंशे चार्थज्ञानयोरभेदविकल्पः । अर्थद्वारा च शब्दज्ञानयोरप्यभेदविकल्पः । एवं नारायणेो ऽयं भासतइत्यादिरूपैश्च सवितर्का समापत्तिर्भवति । अत्र शब्दादिविकल्पेर्यथासंभवमन्येपि विकल्प उपलक्षणीयाः । इयं च समापत्तिरपरं प्रत्यक्षमविद्यालेशसंबन्धादिति । सूत्रान्तरं योजयितुं प्रथमं तावदिर्वितको स्थलसमापत्तिं व्याचष्टे । यदा पुनरिति । अयं भावः । शब्दसंकेत स्मरणपूर्वक ताम्रक्रमेणागमानुमान ज्ञाने भवतः । संकेतश्चायं गौरिति शब्दार्थयोरितरेतराध्यासात्मकः । ‘एतद्वैतत्परमपरं च ब्रह्म यदोंकार' इत्यादिश्रुतिषु 'अकारोकारमकारा ब्रह्मविष्णुमहेश्वराः' इत्यादिस्मृतिषु 'अमरा निर्जरा' इत्यादिकाशेषु च संकेतस्य विकल्पिताभेदरूपत्वावधारणात् । ततश्च संकेतग्रहसमानाकारणैव शाब्दबोधस्तन्मलकानुमानं च भवतीत्यत आगमानुमानज्ञानयोरपि श्रवणमननरूपयोर्विकल्प औत्सर्गिकः ततश्च तन्मलिका या प्रथमं जायते समाधिप्रज्ञा सापि विकल्पव्याप्तिश्चैव भवतीति सा
Jain Education International
For Personal & Private Use Only
ܘ
૭૧
www.jainelibrary.org