________________
७०
योगवार्तिकम् । निभासतइत्यर्थः । यत्र समापत्तिरूपस्य प्रत्यक्षस्य प्रामाण्याय ग्राह्म. रूपाकारण निर्भासतइत्यनेन तत्फलमुक्तं पौरुषेयबोधस्यैव प्रमाणफलत्वादिति । एवं सर्वत्र ग्राह्मसमापत्ताववान्तां त्रैविध्यमाह । भतेति । अत्र भूतसूत्मशब्देन तन्मात्रादिप्रकृतिपर्यन्तं गृहीतं सूत्मशब्दस्य कार. णार्थतया नात्रेन्द्रियग्रहणं स्यलशब्देन च महाभूतानि गृहीतानि विश्वभेदशब्देन च स्यावरजङमादयो ऽवान्तरभेदा ग्राह्याः । अन्यत् पूर्ववत् । गृह्यते ऽनेनेति ग्रहामन्द्रियं तत्र समापत्ती सूत्मस्थलविश्वभेदरूपं त्रैविध्यमतिदिति । तथा यहणेष्वपीति । इन्द्रियाणां सूत्म बुढाहंकाराविति भाष्यकारो वयति । स्यूलं च चक्षुरादिकं विश्वभेदश्च स्थावरजङ्गामानां चतुर्दिविशेषा इति । अवान्तर्राविभागमतिदिश्य ग्रहणसमापत्तिं सामान्यतो दर्शयति । ग्रहणालम्बनेति । पूर्ववढयाख्येयम् । ग्रहीतृसमापत्ति पूर्ववढाचष्टे । तथा ग्रहीत्रिति । ग्रहीतृत्वं बुद्धेरपि व्यपदिश्यतइति तवावर्तनाय पुरुषपदम् । अत्र ग्रहणफलोपहितत्वं ग्रहीनृत्वं स्वरूपयोग्य. तापरत्वे मुक्तपुरुषेषु पृथग्वचनानौचित्यात्, ईश्वरस्य चात्रैव प्रवेशः । ग्रहणस्वरूपयोग्यमात्रेष्वपि समापत्तिं व्याचष्टे । मुक्तेति । मुक्ता आयन्तिकलयं गताः शुक्रादयः । समयसूत्रार्थमाह । तदेवमिति । सामान्यतः समापत्ति रुक्ता तत्र ग्रहीतृसमापत्ती स्थलमूक्ष्मविषयत्वरूपविशेषाभावात्सा एकविधैव । ग्राह्मग्रहणसमापत्त्योस्तु तद्विशेषसत्त्वात्तयोर्विशेषानाह त्रिभिः सूत्रैः । तत्र शब्दार्थज्ञानविकल्पः संकीर्णा सवितकी
समापत्ति: ॥ ४२ ॥ तृतीयसूत्रे सूक्षविषयकसमापत्तेः वयमाणतयास्य सूत्रद्वयस्य स्थलविषयकत्वं परिशेषाल्लभ्यते । स्यूलं कार्य सूक्ष्मं करणम् । तत्र स्थलं द्विविधं, भूतानि तन्मात्राणां कार्याणि इन्द्रियाणि चाहंकारस्य कार्याणीति । तत्र च स्थलसूत्मसमापत्ती द्विविधे भवतः । तासु चतसृषु समा. पत्तिषु सविकल्पिकायाः स्थलविषयकसमापत्तेर्लक्षकमिदं सूत्रं, तदेतद् व्याचताण आदी शब्दार्थज्ञानविकल्पमुदाहरति । तदाथेत्यादिना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org