________________
योगवार्तिकम् । सामान्यतेो योगद्वितयं च प्रोक्तमतः परं योगयोः फलं वक्तव्यं, तत्रादौ संप्रज्ञातस्य फलं ध्यानादिव्यावृत्तं प्रतिपादयन्सत्रमवतारयति । अर्थात । अथशब्दः प्रश्ने । समापत्तिः सम्यगालम्बनाकारत्वापत्तिः प्रत्यक्षत्तिरित्यर्थः । चित्तस्य चेयं प्रज्ञाख्यावस्या संप्रज्ञातेष्वेव भवति न तु धारणा. ध्यानसमाधिषु तेषु सामाय्येणालम्बनाग्रहणात साक्षात्कारस्यैव विशेषा. कारत्त्वादिति ॥ क्षीणहत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्राह्येषु
तत्स्थतदञ्जनतासमापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरपगतवृत्त्यन्तरस्य चित्तस्येत्यर्थः । अभिजातस्य निर्मलस्य मणेरिव ग्रहीत्रादिषु तत्स्थिततया तदजनता सम्यक् तदाकारता जायते, सा च समापत्तीति* शब्दवाच्या भवतीत्यर्थः । अत्र संप्रज्ञातफलभूतायाः प्रज्ञायाः समातिरिति तान्त्रिकी परिभाषापि प्रसङ्गादुक्ता । सा चासंप्रज्ञातव्यावृत्तस्य संप्रज्ञातस्वरूपस्य परिचायकतयैव संप्रज्ञातयोग इति पश्चाद्वक्ष्यते ता एव सबीजः समाधिरिति सत्रे इति । दीणवृत्ते. रिति हेतुगर्भविशेषणस्यायमाशयः। चित्तस्य स्वत एव सर्वार्थसाक्षात्का. रसामर्थ्यमस्ति विषयान्तरव्यासङ्गदोषादेव तु तत्प्रतिबद्धमतो वृत्त्यन्तरप्रतिबन्धस्य निःशेषतो विगमे स्वत एव ध्येयवस्तुसाक्षात्कारस्तद्रपापत्याख्यो भवतीति भाष्ये प्रत्यस्तमितेति । प्रत्ययस्य प्रत्ययान्तरस्येत्यर्थः, समापत्तेर्राप प्रत्ययत्वात् । उत्तिक्रमानुरोधेन सोत्रं पाठक्रममुल्लङ्घ्य याह्मादिसमापत्तीः सदृष्टान्ता व्याख्यानायादौ स्वयं विवृणोति । यति । उपाश्रयभेदाज्जपाकुसुमाग्रंपाधिविशेषात्तद्रपोपरक्तस्तत्प्रतिबिम्बोद्वाहीसन् स्फटिक उपाधितुल्याकारतयैव निर्भासते प्रतीयते तथा याह्मणालम्बने. नोपरक्तं सर्पितप्रतिबिम्बं वृत्तेः प्रत्यक्षरूपतालाभाय ग्राह्मसमापमिति पाह्मगतविशेषाकारमित्यर्थकमेवंभूतं चित्तं ग्राह्यान्यनाकारणेव साक्षिणि
• इतिशब्दः पुस्तकान्तरे नास्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org