________________
દ
योगवार्तिकम् ।
यस्य तत्तथा सर्वजीवेषु विस्मृतात्मकेषु सुषुप्तदृष्टिर्माच्चित्तमिति यावत् ।
तदुक्तम्
ब्रह्मादयं स्थावरान्तं च प्रसुप्तं यस्य मायया । तस्य विष्णोः प्रसादेन यदि कश्चित् प्रमुच्यते । चराचरं लयइव प्रसुप्तमिह पश्यताम् । किं मृषा व्यवहारेषु न विरक्तं भवेन्मनः ॥ इति । भाष्यं च सुगमम् 1
यथाभिमतध्यानाद्वा ॥ ३८ ॥
किंबहुना यदेवाभिमतं हरिहर मूत्यादिकं तदेवादी ध्यायेत् तस्मादपि ध्यानात्तत्र लब्धस्थितिकस्य चित्तस्यान्यत्रापि विवेकपर्यन्त. सूक्ष्मेषु विनैव साधनान्तरं स्थितियोग्यता भवतीत्यर्थः । इत्थमेव व्याचष्टे । यदेवेति । परिकर्मनिष्पत्तेर्लक्षणमाह ॥
परमाणुपरममहत्त्वान्तोस्य वशीकारः ॥ ४० ॥
अस्य परिकर्मितचेतसुः । परमं महत्त्वं येषां पुरुषादीनां ते परममहत्त्वाः । व्याचष्टे । सूक्ष्मइति । सूक्ष्मेल्पपरिमाणे चित्तस्य निवेशनमवस्थानमभीप्सोरित्यर्थः । लभते योगीति शेषः । स्थूलइति । स्यूले महत्परिमाणे ऽन्यत् पूर्ववत् । एवं तामिति । एतत् स्थूलसूक्ष्म रूपं कोटिद्वयं पक्षद्वयं चरतो ऽस्य चित्तस्य यो ऽप्रतिघातः केनाप्यप्रतिबद्धता स वशीकारश्चित्तस्य विधेयत्वं भवतीत्यर्थः । परशब्दादपरोऽपि वशीकरोस्ति दोषदर्शनजन्यो वशीकारसंज्ञारूप इति भावः । तदपेक्षयास्य परत्वे हेतुमाह । तद्वशीकारादिति । तस्माद्वशीकारात्परिपूर्ण समाप्तस्यैर्यसाधनाकाङ्कं चित्तमभ्यासान्तरसाध्यं परिष्कारं नापेक्षतइत्यर्थः । वशीकारसंज्ञावैराग्यानन्तरमपि तु चित्तमभ्यासकृतं वशीकारमपेक्षतएवेति तदपरं निकृष्टमिति भावः । तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगसाधनमभिहितं
* संचरत इति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org