________________
योगार्तिकम् । परमात्मनि चित्तस्थितिहेतुत्वमस्तीति । अस्मिताशब्दार्थ पूर्वाचार्यमुखेन विवृणोति । यत्रेमिति । अणुमात्रं सूत्मतममनुविन श्रवणमननाभ्यामवधार्य अस्मीत्येतावन्मात्राकारेण साक्षात्करोतीत्यर्थः । एषा दृयोति । विषयवती अस्मितामात्रा चेति द्विविधा विशोका ज्योति. प्मतीत्युच्यते शास्त्राद्धः । अनया योगिनश्चित्तं तियेोग्यतां प्राप्नोती. त्यर्थः । ननु गन्धादिप्रवृत्तिवदिसंविदोपि विषयवतीत्वे पर्वमत्रेणैव तद्हणं युमिति चेत्, न । गन्धादिपञ्चश्व विषयशब्दस्य मुख्यत्वातत्प्रवृत्तेरेव मुख्यविषयवत्याः पूर्वपत्रेणोक्तत्वात् बुद्धी च पुरुष साक्षितया विषयशब्दो गौण एव, असङ्गस्य पुरुषस्य बुद्धिवढन्धाभावेन सिधात्वा. योगात् । अतो बुद्धिसंविदा गौणं विषयव त्व मत्र सूत्रे प्रोक्तमिति विशो. कत्वं चास्मितासंवेदः सातादेवास्ति 'तरति शोकमात्मविदिति श्रुतेः । बुद्धिसंविदस्तु विशोकत्वं संकल्पसिया किं वा विवेकल्यातिद्वारेति बोध्यम् । चित्तस्थैर्यकारणं परिकमान्तरमाह ॥
वीतरागविषयं वा चित्तम् ॥ ३७ ॥ व्याचष्टे । वीतेति । वीतरागं यत्सनकादीनां चित्तं तदेवालम्बनं तेनोपरक्तं तडारणया तदाकारतापवं योगिचित्तं विरक्तं सदा. लम्बनान्तपि स्थितियोग्यतां लभतइत्यर्थः । तथैव परिकमान्तरमाह ॥ . स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
स्वप्नज्ञानं स्वप्नरूपं ज्ञानं तदालम्बनकं चित्तं प्रपञ्चज्ञाने स्वप्नदृष्टिच्चितमिति यावत् । तथा चोक्तम् ।
दीर्घस्वप्नमिमं विद्धि दीर्घ वा चित्तविभ्रमम् ।
इति। इयं च दृष्टिः कामदुघत्वादिगुणैर्वाचि धेनुदृष्टिवत क्षणभङ्गु. रविषयकत्वादिगुणैर्जाग्रत् ज्ञाने स्वप्नदृष्टिरूपेति। एतदपि वैराग्यद्वारा चित्तस्यैर्यहेतुरित्याशयः । निद्राज्ञानालम्बने चेति । निद्रारूपं ज्ञानमेवालम्बनं
* विषयवतीत्वमिति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org