________________
હૃદ
योगवार्तिकम् ।
I
हीति । बुद्धिरूपं सत्त्वं भास्वरं स्वपरप्रकाशकं तेजेावत् आकाशर्वाद्वभु च भवति तत्र बुद्वैा स्थितिवैशारदद्याद् निर्मलैकाय्यात् बुद्धिप्रवृत्तिः सूर्यादि - प्रभान्तसदृशाकारेण विकल्पते विशेषेणेोत्पदातइत्यर्थः । अतो विषयस्य ज्योतिष्मत्वेन विषयिणी प्रवृत्तिरपि ज्योतिष्मतीति भावः । अत्र चान्तःकरणस्य विभुत्वमाचार्येण सिद्धान्तितम् । अन्तःकरणस्य चेयं योगशास्त्रोक्ता प्रक्रिया । उदरोरसोर्मध्ये यत्पङ्कं तिष्ठत्यधेोमुखमष्टदलं तद्रेचकप्राणायामेनेोर्ध्वमुखं कृत्वा तस्मिन्रालम्बने चित्तं धारयेत् । तत्र हि चित्तं तिष्ठति । तद्यथा । पदूमध्ये सूर्यमण्डलमकारो जागरितस्यानं तस्योपरि चन्द्रमण्डलमुकारः स्वप्नस्थानं तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानं तदुपरि परं ब्रह्म व्योमात्मकं नादस्तुरीयस्थानमस्ति यमईमात्रमुदाहरन्ति योगिनः । तत्कर्णिकायां विष्कग्व्यापिशाखासहस्रवत्या मनोवहनाड्या मूलं तिष्ठति तस्या अलाबुलतिकायाइव ऊर्ध्वमुखी एका शाखा सुषुम्नेति गीयते तथा च शाखारूपया ब्रह्मनाया बाह्यान्यपि सूर्यमण्डलानि प्रोतानि सैव मनोवहा नाडी चित्तस्थानं भवति तस्यां चित्तं धारयतो योगिनश्चित्तसाक्षात्कारो जायते इति । तथास्मितायामिति । अस्मिता ऽत्र नाहंकारः किं त्वात्मतत्त्वं तमणुमात्रमात्मानमनुविद्येत्युत्तरवाक्यात् । अस्मितान्मताहन्तानां पर्यीयत्वाच्च । भावप्रत्ययश्च निर्विशेषसामान्यमात्रताबोधनाय प्रयुक्तः । तथा चास्मितायां विविक्तचिन्मात्रे पुरुषे समापत्रं तदूपतापत्रमत एवं निस्तरङ्गमहोदधिकल्पं पुरुषाकारत्वात् स्वयमपि तत्कल्पं तथा शान्तं शोकादिनिमित्तक्षोभरहितमनन्तं सर्वतोनावृतमस्मितामात्रमस्मीत्येतावन्मात्राकारमन्याकारताशून्यं भवतीत्यर्थः । आत्मनश्चिज्ज्योतिर्मयत्वात् तदाकारस्य ज्योतिमत्त्वं स्पष्टमेवेति पुननैोक्तम् । नन्वनेनैवात्मसाक्षात्कारेणैव कृतार्थत्वात् कथमस्य स्थितिशेषतयेोपन्यास इति चेत् न । कृतात्मसाक्षात्कारेखापि ज्ञाननिष्ठया परवैराग्यार्थमभ्यासापेक्षणादिति, गन्धादिप्रवृत्तिभ्यश्चायमस्मिताप्रवृत्तेर्विशेषो यगन्धादिप्रवृत्तयो ऽर्थान्तरेषु चित्तस्यैर्यतवो ऽस्मिताप्रवृत्तिस्तु स्वविषयएवेति । अपि जीवात्मसाक्षात्कारस्य
Jain Education International
ܘ
For Personal & Private Use Only
www.jainelibrary.org