________________
योगार्तिकम् । वत्यां प्रवेशनीया इत्यर्थः । अतो न न्यनतेति भावः । संशयं विध. मन्तीति यदुक्तं तत्र शङ्का निराकुर्ववेव तद्विवति । यद्यपि हीति । तैस्तैः शास्त्रैः स्वानुमानैराचार्यापदेशैश्च निर्णीतमर्थतत्त्वं परमार्थभूतमेव भवती,ति निश्चयान तत्र संशयः संभवतीति शेषः । संशयमुपपादति । तथापीति । यावच्छास्त्रार्थ क्रदेशः स्वकरणैश्चक्षुर्मनादिभिर्न साताक्रियते तावत्सर्व शास्त्रादि परोक्षमिव व्याजोक्तिवत् संदिग्धतात्पर्यक भवति इत्यतो नापवादिषु निश्चयं जनयतीत्यर्थः । तात्पर्यसंशयाहितो हि संशयो निर्णीते ऽप्यर्थ भवति । अत एव शास्त्रमलके ऽनुमा. नेपि संशयो भवतीत्याशयः । संशयमुपपादन तद्विधमनप्रकारमाह । तस्मादिति । उपोद्वलनमत्र पूर्वावधृततात्पर्य संशयापसारणं, तत्र शास्त्रेषु श्रद्धीयते इदमित्यमेवेति विश्वस्यतइत्यर्थः । एतदर्थ निश्चयाख्यश्रद्धोत्पादनार्थ समाधिप्रज्ञायाः श्रद्धा द्वारीभवतीति यदुक्तं तद्विवृणोति । अनियतास्विति । अनियतासु अव्यवस्थितासु चित्तवृत्तिषु मध्ये तत्तद्गन्धादिप्रवृत्त्या गन्धादीनां दोषदर्शनात् तद्विषयके वशीकारसंज्ञावैराग्ये जाते सति विक्षेपहासात् तस्यतस्योत्तरभूमिरूपस्यार्थस्य साक्षात्काराय चित्तं समर्थ स्यादित्यर्थः । वैराग्यस्य द्वारं वितेपाख्यप्रतिबन्धनिवृत्तिं स्वयं विवृणोति । तथा च सतीति । वशीकारसंज्ञावैराग्ये च सतीत्यर्थः । चित्तस्यैर्य निबन्धनं परिकर्मान्तरमाह ॥
विशोका वा ज्योतिष्मती ॥ ३६ ॥ विगतः शोको यस्या इति विशोकेति हेतुगर्भविशेषणं तथा च | यता विशोका अतो वक्ष्यमाणज्योतिष्मती श्रेष्ठा स्थितिहेतुरित्यर्थः । द्विविधां विशोकां विवृणोति । हृदयेत्यादिना एषा द्वयी विशोकेत्यत्तेन । हृदयपुण्डरीकालम्बने चित्तं धारयतो या बुद्धिसंवित्तत्साक्षात्कारो भवति यच्च वयमाणरीत्या ऽस्मितामात्रमस्मीत्येतावन्मात्राकार चित्त भवति एषा द्वयी विशोका ज्योतिष्मतीत्युच्यते इत्यन्वयो भवियति, तत्र बुद्धिविदि ज्योतिष्मतीसंज्ञाया अन्वर्थतामाह । बदिसत्त्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org