________________
६
योगवार्तिकेोपसंहारः ।
ऽयमेव विशेषो यदयं नायत्प्रपञ्चो ब्रह्मात्मैकत्वदर्शनाद्वाध्यते स्वाप्रप्रपञ्चस्तु प्रतिदिनं निद्रापगमेनैवेति । विकारत्वेनोभयत्र मिथ्यात्वसाम्ये ऽपि भ्रमस्वरूपवैचित्र्यानुकूल सामयी वैचित्र्य मेवावधारयन्ति वेदान्तसूत्राणि न कस्यापि विकारस्य सत्यत्वम् । एवं स्थिते परमार्थदर्शिनां वेदान्तिनां प्रपञ्चजातस्यातितुच्छ त्वकथनं दूषयन् विज्ञानभिक्षुः स्वस्यापरमार्थदर्शित्वमेव प्रकटयति । चित्रं हि तस्य 'नहि स्वप्नगन्धर्वनगरादयोप्यत्यन्तासन्त' इति जल्पनम् । मरुमरीचिद्विचन्द्रदर्शन बौद्धशशविषाणादेरपि साक्षिभास्यतया तस्य मते ऽत्यन्ततुच्छत्वाभावेन तादृशोक्तिसंभवस्येवाप्रसिद्धेः । ननु स्वप्नगन्धर्वनगरादयः कालविशेषे भासन्ते इति न ते ऽत्यन्तासन्तः । शशविषाणादयस्तु सन्त्येवात्यन्तासन्ता यतस्ते न कदापि भासन्ते इति चेत्कथं न भासन्ते इति ब्रवीषि तव तु भासन्त एवात एव तद्वत्, ते न सन्ति, न भासन्त, इति च तान् व्यवहारगोचरीकुरुषे । यद्वा न ते भासेरन्रीषद्ववेकिनस्ते त्वत्तो ऽविवेकिनां तु भासन्त एव ते । तथा चोक्तं वासिष्ठे |
बालस्य हि विनोदाय धात्री वक्ति शुभां कथाम् । क्वचित्सन्ति महाबाहो राजपुत्रास्त्रयः शुभाः ॥ द्वैा न जाता तथैकस्तु गर्भ एव न च स्थितः । वसन्ति ते धर्मयुक्ता अत्यन्तासति पत्तने ॥ स्वकीयाच्छून्यनगरानिर्गत्य विमलाशयाः । गच्छन्तो ददृशुर्वृक्षान् गगने फलशालिनः ॥ भविष्य गरे तत्र राजपुत्रास्त्रयो ऽपि ते । सुखमय स्थिताः पुत्र मृगयाव्यवहारिणः ॥
धात्र्येति कथिता राम बालकाख्यायिका शुभा । निश्चयं स ययौ बालो निर्विचारण्या धियेति ॥
नवस्मदादापविवेकिन उद्विश्येवायमत्यन्तासन्त स्तुच्छा इत्यादिविभागो न त्वत्यन्ताव्युत्पवधियो बालानुद्दिश्येति चेद्रन्त कथं समाने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org