________________
योगवार्तिकोपसंहारः । उपलब्धः," 'भावे चोपलब्धे" रिति वेदान्तसूत्राभ्यामेवात्यन्ततुच्छताया निराकरणात् । “सत्त्वाच्चावरस्य,” “असहापदेशादिति चेत्र धर्मान्तरण वाक्यशेात्,” “वैधाच्च न स्वप्नादिदि"त्यादियथाश्रुतवेदान्तसूत्रेभ्यः प्रपञ्चस्य सदसदपताया असिद्धश्च । शास्त्रेषु स्वप्नादिदृष्टान्ताश्च क्षणभ गुरत्वपारमार्थिकासत्त्वांशेनैवेति बोध्यम् । नहि स्वप्नगन्धर्वनगरादयोग्यत्य. न्तासन्तः । स्वप्नादापि सातिभास्यमानसपदार्याभ्युपगमात् । अन्यथा “सन्ये सृष्टिराह ही"ति वेदान्तसूत्रेणैव स्वप्ने सृष्टावधारणं विरुध्येत । न स्वप्नादिदिति वेदान्तसूत्रं च जायत्प्रपञ्चस्य केवलमानसत्त्वमेव निराकरोति । एतेन स्वप्नादिदृष्टान्तः प्रपञ्चस्य मनोमात्रत्वाभ्युपगमो नवीनवे. दान्तिनामपसिद्धान्त एवेति' ।
अत्रेदं विचार्यते । नाभाव उपलब्धेभीवे चापलब्धेरित्यादिवेदान्तसूत्रः किं प्रपञ्चस्य ब्रह्मातिरिक्तास्तित्वं साध्यते आहोस्विद्वह्मात्मकस्यैव तस्य स्वानप्रपञ्चातिरिक्तत्वमात्रम् । न च ब्रह्मातिरिक्तत्त्वं साध्यत इति वक्तुं शक्यम् । तदन्यत्त्वमारम्भणशब्दादिभ्यइत्यादिसूत्रजातैनामरूपात्मकस्याशेषस्य जगतः पटस्य तन्त्वात्मकत्वस्येव ब्रह्मकारणात्मकत्वस्यैव व्यवस्थापनात्। तथा च ब्रह्मात्मकस्यैव जायत्प्रपञ्चस्य स्वाप्रप्रपञ्चातिरितत्वमानं प्रतिपादर्यान्त तादृशसूत्राणीति पर्यवस्यति ।
नचैवं प्रपञ्चस्य ब्रह्मात्मकत्वे स्वप्नापेक्षया सत्यत्वमेवोक्तं भवतीति वाच्यम् । प्रारम्भणशब्दादिभ्य इत्यादिना ब्रह्मात्मना सत्यस्यापि जगतो विकारात्मना ऽत्यन्ततुच्छताया एव प्रतिपादनात् । वाचारम्भणं विकारोनामधेयमिति । यतो वाचैव केवलमस्तीत्यारभ्यते विकारो घटशरावादिः शशरङ्गादिवत् । न तु विकारो नाम कश्चिदस्ति ते कारणादिति दृष्टान्तोक्ताद्वावारम्भणशब्दावाष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव एव गम्यते । ननु दृश्यते नामरूपात्मा विकार इति चेद् दृश्यतामविवादिदूषितदृशां मिथ्यैव निद्रादिदूषितदृशां स्वप्न इव । स एव चानूयते सन्ध्ये सृष्टिराह हीति सूत्रः । एवं समाने ऽपि मिथ्यात्वे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org