________________
योगवार्तिकोपसंहारः ।
भवेत्' । तथात्मैको ह्यनेकश्च जलाधारेष्विवांशुमानि' त्यादिश्रुतिस्मृतिभिरात्मैक्यस्यैव वेदान्ते प्रतिपादनात् । एकस्यैवात्मनो नभसो घटशरावाव्युपाधिभिर्भेदस्येवाविद्याकल्पितोपाधिभेदैर्जीवेश्वरादिरूपेण भेदसंभवाल्लाघवादेकात्म्य कल्पनस्यैवौचित्याच्च । न झत्र कल्पितजीब स्वरूपगतेधर्मैः कारणोपाध्यवच्छिन्नस्येश्वरस्य संसारित्वमापादयितुं शक्यते । घटशरावादिजन्म विनाशाभ्यां मृददव कार्योपाधिजीवधर्मैः कारणोपाधेरीश्वरस्यासंबन्धस्यैव युक्तिसिद्धत्वात् । नहि मरुमरीचिक्राव्यध्यस्तजलानीदपि स्वाधिष्ठानं पहिलीकर्तुमीशते । जीवकल्पनोपादानभूतत्त्वादेव चास्य परमात्मनो ऽन्तर्यामित्वमप्युपपद्यते । सर्वजीवानामैक्यमपि स्वोपा दानैक्यदृष्ट्वोच्यते वेदान्तेषु । तच्च सकलजीवानामद्वयात्मोपादानकत्वेनाध्यासवैचित्र्ये ऽपि परमार्थत उपपद्यत एव । एतेनैकस्यैव चिदाकाशस्यैकान्तः करणाद्विमुक्ते ऽपि प्रदेशे संसार्थन्तःकरणसंबन्धादुन्धप्रसङ्ग इत्यपि विज्ञानभितो रुक्तिः प्रत्युक्ता । अधिष्ठानसन्मात्रस्य विभोरकान्तःकरणसंबन्धसंभवे ऽन्तःकरणान्तरसंबन्धसंभवो वाच्यः । स एव तु न संभवति । मरुमरीच्युदकैर्भू मेरिवाध्यस्त धर्म सहसैरप्यधिष्ठानचितेरसंबन्धात् । न चैवं बन्धमोत्तादाव्यवस्थापि वक्तुं शक्या । अखण्ड़ाद्वयानन्दसच्चिन्मात्रस्याप्यात्मनो ऽनाद्यविद्याकल्पितोपाधितादात्म्याध्यासात्संसारित्त्वं तादृशाविद्या दोषापगमे तु नित्यशुद्धबुद्धमुक्तस्वभावात्मतत्त्वावग मान्मुक्तत्वमिति व्यवस्थापपत्तेः ।
वेदान्तशास्त्रे हि सर्वेयं बन्धमोक्षादिव्यवस्था व्यवहारदृष्टिमालम्ब्यैवोपपादयते न परमार्थतः । तत्र हि वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिश्रुत्या बन्धमोत्तादिसकलप्रपञ्चजातस्य शशशृङ्कादिवदत्यन्त तुच्छत्वस्यैव प्रतिपादनात् ।
.
कारस्तु प्रपञ्च स्यात्यन्ततुच्छता सिद्धान्तो नवीनवेदान्तिबुवाणामेव न तु प्राचीनयथार्थवेदान्तिनामित्याह । तथाहि । 'न तु प्रपञ्चस्यात्यन्ततुच्छता अत्यन्तविनाशिता वा वेदान्तसिद्धान्तः' । “नाभाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org