________________
योगवार्ति कोपसंहारः ।
विभाग इत्यादयो वेदान्तविरुद्धा दूव सिद्धान्ता उपलभ्यन्ते ते वेदान्तप्रक्रियोक्तां व्यावहारिकों सत्तामादाय तत्त्वं पदार्थनिरूपणायैवात्रेोपादीयन्त इति न कोपि विरोधः । न ह्यशेषचित्तवृत्तितत्संस्कारनाशाच्चित्तनाशेन कैवल्यरूपपारमार्थिक सत्तामात्ररूपेणावशिष्टस्य योगिनस्स्वस्मादन्यः कोपि जीवः शिवो वापरमार्थतोऽस्ति । विक्षिप्तचेतसां व्यावहारिकाणामेव त्वयं जीव ईश्वरोवेति प्रत्ययः संभवति । तथा च योगसूत्रम् 'कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति' । स्मृतिश्च । विज्ञानात्मनि संयाज्य क्षेत्रज्ञे प्रविलाप्यत्तम् | ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तथात्मा साम्यमभ्येति योगिनः परमात्मनेति ॥
योगवार्तिककारस्तु परमार्थत एव परस्परं जीवानामीश्वरस्य च भेदो ऽवैधर्म्यलक्षणमात्र एव तु तेषामभेद: । अयमेव च पुरातनवेदान्तसिद्धान्तः । अन्यथा जीवेश्वरयेारंशां शिनोर्व्याप्यव्यापकभावस्वीकारण जीवोपाधिना वच्छेदास्यात्म प्रदेशस्येश्वरोपाध्यवच्छिनत्वं वक्तव्यं तथा च यथा ब्रह्माण्डाकाशस्य गर्दभमुखावच्छेदेन दुःस्वरत्वं यथा वा पाय्ववच्छेदेनोपाधिकं दुर्गन्धत्त्वमेवं कारणसत्त्वावच्छिन्नचिदाकाशस्यापीश्वरस्य जीवोपाध्यवच्छेदेन संसारित्वं स्यात् । यदि च जीवेश्वरी चैतन्यस्यैवांशौ न तु जीव ईश्वरस्य साचादंशोऽतो घटकुण्डाकाशवदेवान्योन्यव्यावृत्त जीवेश्वरौ स्वीक्रियेतां तदापीश्वरस्य जीवान्तर्यामित्त्वानुपपत्तिः । जीवप्रदेशेपीश्वरासत्त्वादिति । एवमेव सर्वजीवानामप्यैक्यं न संभवति । एकस्यैव चिदाकाशस्यैकान्तःकरणाद्विमुक्ते ऽपि प्रदेशे संसार्यन्तःकरणान्तरसंबन्धाद्बन्धप्रसङ्गेन श्रुत्युक्तबन्धमोक्षादिव्यवस्यानुपपत्तेः । नाकाशस्य भग्नघट प्रदेशेष्वन्य घटसंबन्धो न भवतीति नियमः संभवति प्रत्यक्षविरोधात् पर्यायैश्चैकस्मिन्नेव देशे ऽनेकलिङ्गदेहसंबन्धस्य समानदेशीयभोगेनानुमानाच्चेत्याह ।
तच्छ्रुतिस्मृतियुक्तिसिद्ध वेदान्तसिद्धान्तविरुद्धम् । 'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'सर्वं खल्विदं ब्रह्म' 'आकाशमेकं हि यथा घटादिषु पृथग्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org