________________
योगवार्तिकोपसंहारः ।
इत्थं न्यायवैशेषिकाभ्यां संपादिते ऽप्यापातत आत्मानात्मपद ज्ञाने सांख्यशास्त्रात्प्रकृत्यतिरिक्तस्य स्वस्य नित्यशुद्धत्वे चावगते तत्रास्थिरपदे चेतस्यात्मनः साक्षात्कारः संभवति दूरतरां त्वात्मनो ब्रह क्यावगतिरिति निदिध्यासनसिद्विपरं योगशास्त्रं भगवान् पतञ्ज प्रणिनाय |
इदं च शास सूत्रोपनिबद्धं व्यासदेवैः कृतभाष्यमनायासत एव नतिप्रौढधियोऽपि यथावदवगच्छेयुरिति जातानुकम्पा विज्ञानदेवस्त सभाष्यस्याशेषाशयविशेषाविष्कार कारकं सुविस्तरं सरलोक्तिघटितं च योग वार्तिकं नाम व्याख्यानमकरोत् । अस्मिन् वार्त्तिके च न केवलं स्वसिद्धान्त एव निरूपिता अपितु यथावसरं शास्त्रान्तरसिद्धान्तास्तेषां गुणदोषा अपि परीक्षिताः सन्ति ।
अयं तावदयोगशास्त्रविषयाणां संदर्भः । अस्मिन् शास्त्र विषयग परिच्छेद सूचकाश्चत्वारः पादा वर्तन्ते । तत्र प्रथमे पादे उत्तमाधि कारिणां क्रियायोगादिसकलाङ्गनैरपेक्ष्येण चित्तवृत्तिनिरोधात्मको योग Sभ्यासवैराग्यादीनि तत्साधनानि च प्रदर्शितानि । द्वितीयपादे वि चित्तस्यापि समाधिसिद्धार्थं तपः स्वाध्यायेश्वरप्रणिधानानि क्रियास यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टा योगाङ्गानि निरूपितानि । तत्र मध्यमाधिकारिणां योगसिद्धार्थं तीव्रतरतपःस्वाध्य येत्यादिक्रियायोग एवालं मन्दाधिकारिणां तु यमनियमाद्यष्टयोगाङ्गा पेक्ष्यन्त 'स्वेति विवेकः । एषामष्टयेोगाङ्गानां मध्येऽस्मिन्पादे बहिरङ्गसा धनानि यमनियमासनप्राणायामप्रत्याहारा एव ससिद्धयः प्रोक्ताः । तृती पादे त्ववशिष्टानि धारणाध्यानसमाधिरूपाणि त्रीण्यङ्गानि योगसि सूचिका बया विभूतयश्च निरूपिताः । चतुर्थेपादे कैवल्ययेोग्यं विर निधारयितुं पूर्वपादे साधारण्येन निर्दिष्टानां सिद्धीनां पञ्च प्रकारानुक्त्व कैवल्यं निरूपितम् इति ।
अस्य शास्त्रस्य वेदान्तोक्तनिदिध्यासनसिद्वेरेव मुख्यफलतयेतरशा स्त्रापेक्षया वेदान्तशास्त्रान्तरङ्गतमत्वम् । ये चात्र जीवनानात्वं जीवेश्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org