________________
॥ श्रीः
॥ योगवार्तिकेोपसंहारः ॥
प्रायः सर्वोऽपि जनः सुखं मे भूयादित्यजस्रं तदाशासनस्तत्तद्वियोपभोगजनितानागमापायिनो दुःखोदकान्त्सुखाभासानेव सुखं मन्यमास्तदर्थमेवानवरतं प्रयतमानो यथार्थमनाद्यनन्तं कण्ठचामीकरमिव नित्यसिद्धमप्यात्मसुखं समुपेत्तमाणश्च कथमयं तादृशं यथार्थं सुखं विन्देदित्यनुक्राशन्त्या तदेवाधिकारितारतम्यानुरोधेन तदुपलब्ध्युपायतारतम्यं प्रदशयन्त्या च श्रुत्योपदिश्यते । न चायमुपदेशेोऽसमासादितचित्तशुद्धीनां जनानां विविधप्रमाणोपपत्तियुक्त्युपन्यासमन्तरा हृदयंगमः स्यादित्यालोच्य परोपकारपरायणा महर्षयो व्यासजैमिनिपतञ्जलिकपिलगोतम कणादास्तांस्तानधिकारिण उद्दिश्य तत्तच्छ्रुतिवाक्यार्थानां प्रकाशकान्यसाधारनि दर्शनानि व्यरचयन् ।
4 तत्र शमदमादिसाधनसंपचानां मुख्याधिकारिणामुपकाराय निर(शयानन्दरूपस्य जीवन स्नैक्यस्य तद्धेतुभतश्रवणमनननिदिध्यासनानां यथाश्रुत्युपपादकं वेदान्तं नाम शास्त्रमनुशास्ति स्म भगवान् व्यासदेवः । नधिकारिणां स्ववर्णाश्रमधर्मानुष्ठानेन चित्तशुद्विद्वारा मुख्याधिकारसार्थ श्रुत्युक्तधर्म पदार्थं तदाश्रितानि विविधान्यधिकरणानि च सप्रपञ्चं ऽकृतप्रकृतिपुरुष विवेकाः परे ब्रह्मणि प्रतिपादर्यात जैमिनीयं शास्त्रम् । यासादितचित्तशुद्धयोऽपि न सहसाप्रवेष्टुं शक्नुवन्तीति प्रकृतिपुरुषविवे(कमात्र तात्पर्यकं सांख्यशास्त्रं भगवन् कपिलो मुनिर्निर्ममे ।
Jain Education International
न पुनरयमपि विवेको दृढदेहात्मबुद्धीनां सुगम इत्यालोच्यैते कथमपि स्थूलदेहातिरिक्तमात्मानमवगच्छेयुरिति संकलपदार्थनिरूपके न्यायवैशेषिकशास् े निर्ममाते तत्र भवन्तैा स्वस्वबुद्धिवैचित्र्यपुरस्कृता गोतमकणाद |
·
For Personal & Private Use Only
www.jainelibrary.org