________________
योगवार्तिक । अत्र सूत्रेणो त्तरम् । मैत्रीकरुणामुदितोपेक्षाणां सुखदःखपुण्यापुण्यविषायाणा
भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ प्रसादनं स्थितिनिबन्धनमित्यागामितृतीयसूत्रस्थेनान्वयः । अन्यथा तत्र सूत्रे वाशब्दवैयात् । निबन्धनत्वं च स्थित्यभ्रंशहेतुत्वं तच्च स्थितितुश्रदादाप्रतिबन्धद्वारा तत्रैव आगामिसूत्रे भाष्यव्याख्यानात् । श्रद्धावीर्यस्मृतिसमाधीनामेव स्थितिहेतूनामुक्तवाच्च । अत्र सुखादिशब्दस्तद्वाहुल्यलाभाय धर्मधर्म्यभेदात्सुखितावावी । भावना चोत्पादनं प्रसादनं समाधिप्रतिबन्धकरागद्वेषाधर्मादिमलापसारणं तेोयादिप्रसाददित्यर्थः । तत्र सर्वेति । मैत्रों सौहादी करुणां निरूपधिपरदुःखप्रहाणेच्छां मुदितां प्रोतिमुपेतामौदासीन्यं, सर्वत्र भावोदित्यन्वयः । भावनानां चित्तप्रसाद द्वारमाह । एवमस्येति । शुक्लः पापासंभिवः ततो धर्मः, इतस्तमःक्षये चित्तं निर्मलं भवतीत्यर्थः । अदृष्टद्वारकत्वं चैतन्मुख्यत उक्तं रागद्वेनिवृत्तिरूपदृष्टद्वारकत्वमपि बोध्यम् । तदुक्तं गीतायाम् ।
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवावधेयात्मा प्रसादमधिगच्छति ॥ प्रसवचेतसो झाशु बुद्धिः पर्यवतिष्ठते ।
इति । ननु चित्तस्य प्रसादाख्यपरिकर्मणैव किं कार्यमित्यांकालायामाह । प्रसत्रमिति । प्रसवं चित्तमेकायं भूत्वा स्थिरपदमभ्रंशयोग्यता लभतइत्यर्थः । तिपदमिति पाठे स्थितिः स्थमित्यर्थः। एवं सर्वत्र । प्रसादस्य साधनान्तरमाह ।।
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
वाशब्दाप्यर्थे। आभ्यामपि चित्तस्य प्रसादनं कुर्यादित्यर्थः । नासिकापुटाभ्यासित । एकतरपुटेनेत्यर्थः । प्रयत्र विशेषादिति । सूत्मरूपेण योगशास्त्रोक्तरीत्या, वमनं रेचनमित्यर्थः। विधारणं कुम्भकं तच्चाात्पर णानन्तरमिति बोध्यम् । रेचनोत्तरं परणं विना विधारणासंभवात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org