________________
योगवार्तिकम् । सौभत इत्यर्थः । तत्र हि गव्यत्वं हेतुः प्रसिदो ऽस्ति, अत्र त्वेकसतानी. यत्वरूपो हेतुरप्यसिद्धः संतानस्यैकतानिर्वाहकजात्यायनभ्युपगमार्दाित भावः । दूषणान्तरमाह । किं चेति । स्वस्य बौद्धस्य य आविषयका. नुभवस्तस्याप्यपलापश्चित्तस्य प्रतिक्षणमन्यत्वे सति प्रसज्यतइत्यर्थः । पृच्छति । कमिति । उत्तरं, यदिति । अव्ययमहमा विशेषणम् । तथा चयोहमद्रातं सोहं स्पृशामीत्यादिप्रन्यये ऽहमिति यः प्रत्ययांशः सं सर्वस्य प्रत्ययस्य दर्शनस्पर्शनादिरूपस्यान्योन्यभेदे सति तदाश्रये प्रार्यान मिण अभेदाकारतया ऽनुभासदो ऽस्तीत्यर्थः । आत्मानुभवं व्या. ख्याय तदपहवं व्याचष्टे । एकप्रत्यति । अयं चैकप्रत्यविषयः प्रत्ययव्यक्तिमात्रगोचरको भवन्मने ऽतो भेदाकाराहमिति प्रत्ययः कथं भव. न्मते ऽत्यन्तभिनेषु क्षणिकचित्तेषु विषयत्वेन वर्तमानः सामान्यमेक विषयीकुर्यादित्यर्थः । सर्वप्रत्ययानुगतर्मिणः स्थिरचित्तस्यानभ्युपगमा. दिति भावः । ननु अभेदाकारो ऽहंप्रत्यय एवाप्रामाणिक इति, तत्राह । स्वानुभवेति । अभेदात्मा अभेदाकारः । ननु यत्सत्तत् क्षणिकमिति सत्त्वेन क्षणिकत्वानुमानादुक्तप्रत्ययों बाधनीयस्तत्राह । न च प्रत्यक्षेति। माहात्म्यं स्वार्थसाधकत्वं न तोदिशन्यप्रमाणान्तरेणाभिभूयते प्रतिबयते उपजीव्यजातीयत्वेनाबलवत्त्वादित्यर्थः । शङ्कः पीत इत्यादिप्रत्यक्षं तु तर्कयोगेन बलवतानुमानेनैव बाध्यते । एवं देहायात्मताप्रत्यक्षपि निर्णीतप्रामाण्येन शास्त्रेण संदिग्धप्रामाण्यतया दुर्बलं बाध्यतइति । ननु चित्तातिरिक्तात्मानभ्युपर्गामनामयं दोषो न चास्तिकानाम् अहंप्रत्ययस्य स्थिरात्मविषयकत्वाभ्यपगमादत स्वमते कथं चित्तस्यैर्य सिद्धिरित चेत्, पूर्वोक्तास्मृतिसंस्कारयोरेकाश्रयतानियमादित्यवेहि । तदिदं चित्तस्यैर्यमुपसंहरति । तस्मादिति । परिकर्मापदेशान्यथानुपपत्त्यापि चित्तस्थैर्यमनुमीयते इत्याह । यस्योत । हेतुगर्भविशेषणेन, यस्य स्थिरचित्तस्येदमागामिसूत्रवयमाणपरिकर्मचित्तप्रसाधनं स्थितिदायहेतुः परिष्कार: शा. स्त्रेषु निर्दिश्यतइत्यर्थः । सूत्रान्तरमुत्यापयितुं पृच्छति । कमिति । किमुपायकं किंस्वरूपं किंफलं वा परिकर्म भवतीत्यर्थः । ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org