________________
योगवार्तिकम् ।
વળ
पूर्वसूत्रप्राप्तत्वेन पैौनरुक्त्यापत्तेश्च । सर्वमेव चित्तमेकार्य नास्त्येव विक्षिप्तमित्यागामिभाष्यानुपपत्तेश्चेति । उक्तयोर्वि ते पैकायतयोर्व त्यमाणपरिकर्म गरचे |पपत्तये चित्तस्य स्थिरतां साधयिष्यन् चित्तस्य क्षणिकत्वादिकं दूषयति । यस्य त्विति । यस्य तु वैनाशिकस्य मते चित्तं प्रत्यर्थनियतमर्यादर्थान्तरं न गच्छति तथा प्रत्ययमात्रं निराधारवृत्तिमात्रं तथा क्षणिकं च भवति तस्य मते सर्वमेव चित्तमेकाग्रमते विक्षिप्तचित्तानुपपत्तिरित्यर्थः । तदनुपपत्तौ च तेषां स्वशिष्येभ्यः स्वशास्त्रेषु समाध्यपदेशो विफल एवेति भावः । एकस्य चित्तस्य क्रमेण नानार्थविषयकत्व स्वीकारे तु नायं देोष इत्याह । यदि पुनरिति । ततः किमित्यत आह । अतो नेति । यो ऽपि वैनाशिकविशेष उक्तदोषपरिहाराय मन्यते सदृशप्रत्ययप्रवाहरूपतैव चित्तस्यैकाग्रता प्रवाहमध्ये विसदृशत्वं च विक्षेप इति तस्य मतं येोपीत्यादिनानूय विकल्प्य दूषयति । तस्येति । मतइति शेषः । क्षणिकत्वादिति । अत आश्रयाभावेनैकायतानुपपत्तिरिति शेषः । नन्वतीतानागतवर्त्तमानासु सदृशप्रत्ययव्यक्तिषु त्रित्वादिवद्वद्यासज्यवृत्तिरेकाग्रता भवत्विति चेत्र । अन्यान्यासमानकालीनेषु व्यासज्यवृत्तित्वासंभवात् । क्षणिकवादिनां सामान्यधर्माभावेन सादृश्यस्य दुर्वचत्वाच्चेति । प्रवाहांशस्य प्रत्येकव्यक्तेरित्यर्थः । दूषयति । स सर्व इति । स सर्वः प्रवाहांशः सदृशप्रत्ययप्रवाहान्तःपाती वा विसदृशप्रत्ययप्रवाहान्तः पाती वा भवतु उभयथैव एकाग्रः चित्तस्य प्रत्यर्थनियतत्वादित्यादिरर्थः । अतः स्वसिद्धान्तमुपसंहरति । तस्मादिति । अवस्थितं स्थिरम् । परमते दूषणान्तरमाह । यदि चेति । स्वभावभिनत्वेन नित्यभिन्नत्वेन त्वयाभ्युपगताः प्रत्यया येकचित्तानः श्रिताः स्युरित्यर्थः । अथशब्दः प्रश्ने । अन्य प्रत्ययदृष्टस्येति । तन्मते चित्तातिरिक्तात्माभावादुक्तम् । उपचितस्य अर्जितस्य कर्माशयस्यादृष्टस्येत्यर्थः । नन्वेकसंतानोत्पवत्वेनानुभव संस्कार स्मृत्यादीनां कार्यकारणाभावाभ्युपगमेनायं दोषः परिहर्त्तव्य इत्याशङ्कायामाह । समाधीयमानमिति । गोमयं पायसं गव्यत्वादित्यादि न्यायमतदूषणं समाधीयमानमप्याक्षिपति तिरस्करोति । तख्यायापेक्षयाप्येतद्वषणो दुरणन्याय ग्राभा
I
Jain Education International
ܘ
For Personal & Private Use Only
www.jainelibrary.org