________________
६०
योगार्तिकम् । मधिकृत्य वर्ततइत्याध्यात्मिक, तच्च विविध शारीरं मानसं च । शारीर व्याध्यादिनितं मानसं कामादिनम् । भूतानि प्राणिना व्याघ्रादीन लतीकृत्य जायतइत्याधिभौतिक व्याघ्रायत्यम् । देवानधिकृत्य जायत. त्याधिदैविकं शीतोष्णायुयमित्यर्थः । यद्यपि सर्वमेव विपतोदवं दुःखं मानस तथापि प्राधान्येन मनोविकारजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वविभागः विषयगतदुःखेषु चिवितेपाणामहेतुत्वात् दुःखसामान्यस्य त्रिधा विभागो न घटने घटपटादिदुःखानामसंग्रहात, एवमन्यत्रापि । दुःखसामान्यलक्षणमाह । येनेति । क्षोभश्चाञ्चल्यम् । यदङ्गानीति । अङ्गकम्पाङ्गमेजयत्वमिति । प्राणेति । पुरुषप्रयत्नं विना स्वयमेव प्राणो यद्वाझं वायुमतिशयेनाचामति पिबति शरीरान्तः प्रवेशात स श्वासनामा विकार इत्यर्थः । कोठामुदरस्यं वायुं निःसारयति बहिः करोति । शेषं पूर्ववत् । सूत्रवाक्याथ व्याचष्टे । एतति । विक्षेपसहभुवो व्याध्या. दिवितेपोवाः । तत्र हेतुमाह । विक्षिप्तेति । वितेपानन्तरमेव जायन्ते वितेपनिवृत्ती निवर्तन्तइत्यर्थः । नन्वतेन्तरायाः सकार्याः किमी. श्वरप्रणिधानमानिरस्या अथ वा अन्योपायेनापि निरसितुं शक्या इत्या. काकायामुत्तरं प्रयच्छति सूत्रान्तरावतारणाय । अथैतइति । अथ विक्षे. पोत्पत्त्यनन्तरमेते विक्षेपा अभ्यासवैराग्याभ्यामित्यादिसूत्रोक्ताभ्यां सामा. न्याभ्यामेवाभ्यासवैराग्याभ्यां निरस्या न त्वीश्वरप्रणिधानादेति नियम इत्यर्थः । एतत्प्रतिपादकतयोत्तरसत्रमवतारयति । तत्रेति । तयोरभ्यास. वैराग्ययोर्मध्ये उभ्यासविषयं जीवेश्वरादिसाधारणं पिण्डीकृत्योपसंहरन् इदं मयोक्तं वदयमाणसूत्रेणाहेत्यर्थः । यदि हीश्वरप्रणिधानमेव केवलम. न्तरायाभावहेतुरिति वक्ष्यमाणसूत्रार्थः स्यात्तदा एकतत्त्वाभ्यास इति सामान्योपसंहारो न युज्येत निस्संदेहार्थमीश्वराभ्यास इत्येव वक्तुं युक्त त्वादिति भावः ॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
एकं स्थूलादि किं चित् । यत्तु एकतत्त्वशब्देनात्र परमेश्वर एवोक्त | इति तत्र । बाधकं विना सामान्यशब्दस्य विशेषपरत्वानौचित्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org