________________
-
योगवार्तिकम् । भमिकत्वानवस्थितत्वानि चित्तविक्षे
पास्ते ऽन्तरायाः ॥ ३० ॥ चितविक्षेपक्रतयैतानि ते पूर्वसूत्रोक्ता अन्तराया इत्यर्थः । व्याचष्टे । नवेति । अन्वयव्यतिरेकाभ्यां चित्ते विक्षेपकत्वमेषां साधति । सहैतइति । समकालानाकलनेन सहेत्युक्तम् । एतेषामव्यवधानेनैव व्याधादिगोचरा वा निवृत्त्यपायगोचरा वा चित्तस्य वृत्तयो भवन्ति योगधं. शिका इत्यर्थः । व्याध्यादीवव क्रमेण व्याचष्टे । व्याधिरिति । शरीरधारकत्वात् धातूनां वातपित्तानां रसानामाहारपरिणामानां करणानां चक्षु. रादिमनादीनां च वैषम्यं विसदृशभावो व्याधिः । अकर्मण्यता योगानुष्ठानाक्षमता । आमवातादिना देहस्याक्रर्मण्यत्वेपि वित्तस्य योगाविरोधाच्चित्तस्येत्युक्तम् । संशयाकारमाह । स्यादिति । इदं गुरुशास्त्रोक्तं जानतत्साधनादि । अभाव नमननुसंधानम् । कायगुरुत्वं कफादिना चित. गुरुत्वं तमसा, ताभ्यां हेतुभ्यामपत्तिः समाधिसाधनाननुष्ठानम् । संप्र. योगात्मा सविकर्षजन्यो गर्धा ऽभिलाषः । विपरीतं ज्ञानं गुवादिमिता. र्थविपरीतनिश्चयः । समाधिभूमेरिति । वयमाणानां मधुमत्यादिभूमीनामेकतमस्या पि साधनानुष्ठाने ऽप्यलाभ इत्यर्थः । अप्रतिष्ठालाभेपि भ्रंशः । ननु लाभोतरं भ्रंशे का ततिरित्याशङ्कायामाह । समाधिपतिलम्भे होति । प्रतिलम्भो निष्पत्तिध्ययसाक्षात्कार इति यावत् । अयं भावः । साक्षात्कारपर्यन्तमेव चित्तस्य तत्तदम्यवस्थानमपेक्षितमतो ऽस्तसाक्षाकारस्य योगारूढस्यापि अंशो ऽनस्थितत्वमेव भवतीति । 'आरूढयो. गोऽपि निपात्यते ऽधः सङ्केन योगी किमुताल्पसिद्धि' रित्यादिस्मृतिश्चात्र प्रमाणमिति । एतेषां तान्त्रिकान संज्ञाभेदानाह । एतइति । न केवलमेते व्याध्यादयो योगान्तराया अपि तु दुःखादिरूपेष्वन्तरायान्तरेष्वपि हेतवो भवन्तीत्याह ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥
दुःखादीन्यत्र क्रमेण व्याचष्ठे । दुःमिति । आत्मानं स्व संघात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org