________________
१८
योगवार्तिकम् । चित्तेन चिन्तयानेन वञ्च्यते ध्रुवमन्यथा । धत्ते पदं त्वविता यदि विघ्नर्भि
इत्यादि । स्वरूपदर्शनमिति । अस्य प्रतीचो जीवस्य यत्तात्त्विकं रूपं तस्य साक्षात्करोपि भवतीत्यर्थः । अन्यप्रणिधानेनान्यसाक्षात्कार ऽदृष्टद्वारवत, दृष्टद्वारमध्यस्तीति प्रतिपादयत्रेव स्वरूपदर्शनं विवृति । यति । बुद्धेः प्रतिसंवेदी बुद्धित्तिप्रतिबिम्बोदाही तत्साक्षीति यावत् इदं च जीवब्रह्मणोरत्यन्ताभेदनिराकरणाय वैधर्म्यमुक्त, यथैवेश्वरः शुद्ध्या. दिगुणकस्तथायपि यो बुद्धः साक्षी पुरुष इत्येवमधिगच्छति अवधारर्यात पुरुषत्वाविशेषादित्यर्थः । पुरुषश्चेतनः शुद्धः पापपुण्यविर्जितः प्रसवो निर्दुःखः केवाश्चन्मात्रो ऽनुपसर्गो जात्यायुभोगहित इति । तदेतदुक्तं नारदीये।
मायाप्रवर्तके विष्णो दृढा भक्तिः कृता नृणाम् । मुखेन प्रकृर्भिवं स्वं दर्शयति दीपवद् ॥
इति। यद्यपि अंशिस्वरूपावधारणेनांशस्वरूपावधारणवदंशस्वरूपावधारणेनाशिस्वरूयावधारणं भवति अंशांशिनोरेकस्वरूपत्वस्यार्गिकत्वात, प्रत्युत ईश्वरस्यावाङ्मनसगोचरतया स्वतत्त्वसाक्षात्कारादेव तद नुसारेणेश्वर विवेकः संभवति नान्यथा। तथा च अतिरपि । 'यदात्मतत्त्वेन | तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्यदित्यादिः । तथापि जीवस्य पूर्णत्वनित्यत्वादयंश ईश्वरानुसारेणैव सुखेन ज्ञातुं शक्यतइत्याशयः । अत एव 'तत्त्वमेव त्वमेव तत्' इत्यादिश्रुतयः परस्परमेवावैधर्म्यलक्षणाभेदं प्रतिपादयन्ति। अन्योन्यदृष्टान्तेनान्योन्यधर्माणामन्यान्यस्मिन् अवधारणायान्तरायस्वरूपप्रतिपादकं सूत्रमवतारयति । अथेति । व्याध्यादेरन्तराय त्वोपपादनाय सूत्रे चितविक्षेपा इति वदिष्यति, तस्य व्याख्यानार्थ भाष्ये वक्रोक्तिः । विक्षेपाः विक्षेपकाः । सामान्येन दत्तोत्तरं विशेषसंख्याभ्यां पुनः पृच्छति । के पुनरिति । व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org