________________
५७
योगवार्तिकम् । सृष्टाः प्रधानेन तथा प्राप्य शंभोस्तु सबिधिम् ॥ असंख्याताश्च रुद्राख्या असंख्याताः पितामहाः । हरयश्चाप्यसंख्याता एक एव महेश्वरः ॥ ब्रह्मेन्द्रविष्णुरुद्राक्षेपि देवैरगोचरम् ।
आदिमध्यान्तहितं भेषजं भवरोगिणाम् ॥ शिवतत्त्वमिति ख्यातं शिवापि परं पदम् ।
इति । तदेवं जीवप्रज्ञायाइवेश्वरप्रणिधानादपि प्रज्ञाद्वारा योगस्तत्फलं भोक्षश्च भवतीत्युक्तमिदानी तयोर्मध्ये ईश्वरप्रणिधानस्य मुख्य कल्पत्वं प्रतिपादयितुं तत्र द्वाराधिक्यं सूत्रेण प्रतिपादयति । किं चास्यति । अन्यच्चास्य प्रणिधानिनो भवतीत्यर्थः ॥ तत: प्रत्यकचेतनाधिगमोप्यन्तरायाभावश्च ॥ २८ ॥
तत ईश्वरप्रणिधानात्तत्साक्षात्कारद्वारा तदृष्टान्तेन जीवतत्त्वमप्यनायासेन पूर्णतया साक्षानियताति प्रथमदलार्थः । अपिशब्द आसवतमसमाध्यपेक्षया। यापि प्रति प्रतिवस्तु अञ्चति अनुगच्छतीति व्युत्पत्त्या उसंकुचितसर्वानुगतः परमात्मैव मुख्यः प्रत्यक्शब्दार्थः । 'प्रत्यक प्रशान्तं भगवच्छब्दसंनं यद्वासुदेवं कवयो वदन्ती त्यादिष्वपीश्वरे प्रत्यक्प्रयोगदर्शनाच्च । तथापीश्वरादिशब्दवदेव प्रत्यकशब्दोपि जीवे गौणो विभुत्वात् । अत एव प्रकृतिव्यावर्त्तनाय चेतनेत्युक्तम् । यदि च प्रत्यक्शब्दः पश्चिमवाची तथापि सर्वप्रलयावधिभते ब्रह्मण्येव मुख्यो ऽन्यत्र गौण दति। अन्तरायाभाव एकायतासामान्यस्यैव फलमिति वक्ष्यते 'तत्प्रतिषेधार्थमेकतत्त्वाभ्यास'इति सूत्रेणेत्यतो विशिष्येश्वरप्रणिधानस्यान्तरायाभावफलकत्ववचनमनुवादकतया व्याचष्टे । एतावदिति । अनुवादस्य च फल. माधिक्येन विघ्ननिवर्तकत्वलाभः । 'तस्य ह न देवाश्च नाभत्या ईशत
आत्मा ह्येषां स भवतीति श्रुत्या ब्रह्मात्मतादर्शन इच्छाविघाते देवादीनामप्यसामर्थ्यप्रतिपादनादिति । अत एवोक्तं नारदीयादिष्वपि ।
तस्मान्ममुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org