SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । विपाकैः कर्मणां तस्य न भवेदेव संयमः । कालेषु त्रिषु शर्वस्य शिवस्य शिवदायिनः ।। सुखदुःखैन संस्पृश्यः कालत्रितयवर्तिभिः । तथैव भोगसंस्कारभंगवानन्तकान्तकः ॥ विशेषः परो देवो भगवान परमेश्वरः । चेतनाचेतनोन्मुक्तः प्रपञ्चाखिलात्परः ॥ लोके सातिशयत्वेन ज्ञानेश्वर्य विलोकिते । शिवे नातियत्वेन * स्थिते आहुर्मनीषिणः ॥ प्रतिसगं वस्तुभानं ब्रह्मणोशास्त्रविस्तरम् । उपदेशात्स एष्टव्यः कालावच्छेदवर्तिनाम् ॥ कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः । सर्वेषामपि सर्वशः कालावच्छेदर्जितः ॥ अनादिरेव संबन्धो विज्ञानोत्कर्षयोः परे । स्थितयोरीदृशः शर्वः परिशुद्धः स्वभावतः ॥ आत्मप्रयोजनाभावे परानुयह एव हि । प्रयोजनं समस्तानां क्रियाणां परमेष्ठिनः ॥ प्रणवो वाचकस्तस्य शिवस्य परमात्मनः । शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥ शंभोः प्रणववाच्यस्य भावना तज्जपादपि । आशु सिद्धिः पराप्राप्या भवत्येव न संशयः ॥ एकं ब्रह्ममयं ध्यायेत्सवं विप्र चराचरम् । चराचरविभागं च त्यजेदहमिति स्मरन् । सप्ताण्डावरणान्याहुरण्डस्यात्माम्बुजासनः । कोटिकोट्ययुतानीशे चाण्डानि कथितानि तु ॥ तत्रतत्र चतुर्वका ब्रह्माणो हरयो भवाः । अत्रानतियित्वेनेति पाठः कल्प्यः । नातियित्वेनेति वेतदर्थक बोध्यमिति । - रा० शा० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy