________________
योगवार्तिकम् ।
त्वात्मत्वेनैव, तथा च जीवात्मतत्त्वज्ञानात् बुद्धिपर्यन्तमभिमाननिवृत्तिवत् परमात्मज्ञानात् जीवपर्यन्तेष्वभिमानो निवर्त्तते पञ्चविंशतितत्त्वानि विलाप्यैव सोहमित्यात्मतया ऽधिष्ठानब्रह्मसाक्षात्कारादिति । नन्वेवं जीवस्याप्यनात्मत्वं प्रसक्तमिति चेत्, न । व्यावहारिकपारमार्थिकभेदेनात्मयाभ्युपगमात् । ग्रात्मत्वं हि संघाताध्यक्षत्वं क्षेत्रज्ञत्वं च । तच्चेश्वर - स्यैवास्ति ईश्वरत्ववत्, जीवात्मनां परतन्त्रत्वात् धर्माधर्मादाज्ञातृत्वाच्च । जीवानां च चितिशक्तिमत्तामात्रेणैवात्मत्वं गौणं बुझाट्यापेक्षिकं च यथा हिरण्यगर्भादीनामीश्वरत्वं तद्वज्जीवानामात्मत्वं बन्धमोक्षभोगादिभागितया सिद्धं लोकव्यवहारगोचरतया च व्यावहारिकमेव । एवमेवात्वं शब्दोपि परमात्मन्येव मुख्यो न तु जीवे, प्रयोगादिषु स्वातन्त्र्याभावेन प्रयत्नात्मत्वादिरूपस्याहमादिशब्दप्रवृत्तिनिमित्तस्य जीवेष्वभावादिति ।
तथा चोक्तम् ।
त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृभ्य होज्ञजनताजता ॥
यथा ।
इति । परमनात्मानम् । यदापि जीवा मुख्यात्मा न भवति तथापि तजज्ञानादपि धर्माधर्मरागादिनिवृत्त्या मोतस्तु भवत्येवेति । एतेन व्यवहारपरमार्थभेदादेकात्म्यनानात्मतावादी श्रुतिस्मृतिदर्शनेष्वविरुद्धावित्यपि सिटुम् । अधिकं तु ब्रह्ममीमांसाभाष्ये विज्ञानामृते द्रष्टव्यमिति दिक् । तदिदमीश्वरप्रणिधानाद्वत्यादिसूत्रगणेोक्तमर्थजातं लिङ्गपुराणे स्पष्टं प्रदर्शितम् ।
1
अविदायेशस्य योगो नातीतो नाप्यनागतः । नाप्यस्त्यस्मितया चैवं रागेणापि त्रिकालता ॥ कालेषु त्रिषु संबन्धस्तस्य द्वेषेण नो भवेत् । तथैवाभिनिवेशेन संबन्धो न कदा चन ॥ कुशलाकुशलैश्चैव संबन्धो नैव कर्मभिः । भवेत् कालत्रये शंभोरविद्यामतिवर्जनात् ॥
Jain Education International
५५
For Personal & Private Use Only
www.jainelibrary.org