________________
१४
योगवार्तिकम् । यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तथात्मा साम्यमभ्येति योगिनः परमात्मना ।
इत्यादिवाक्योक्तस्याग्निवायुजलादिबहुलदृष्टान्तस्य साम्यस्य च विरोधात न्यायानुग्रहेणान्यालयादिदृष्टन्तानामेव बलवत्त्वाच्च । किंतु एकरूपस्यापाधिर्कामथ्याविभानिवृत्तिमात्रे इति, विलापनेन च प्रकृत्या. दिवज्जीवानामनात्मत्वमेव लभ्यते । तदुक्तं मात्स्ये
तत्त्वैः संपादितं भुने पुरुषः पञ्चविंशकः । ईश्वरेच्छावशात्सोपि जडात्मा कथ्यते बुधैः । इति । मोतधर्म च ते चैनं नाभिनन्दति पञ्चविंशकमप्युत । डिशमनुपश्यन्तः शुचयस्तत्परायणाः ॥
इति । एतेन प्रतिपुरुषो विलाप्य च्छिष्टं ब्रह्म तस्मिन्नेवाहंभावे वचनाच्च न जीवे मुख्यो ऽहंशब्द इति, धानयोश्चिन्तनयोर्मध्ये प्रथर्माचन्तनमुपासना द्वितीयं तत्त्वज्ञानमिति । ब्रह्मात्मताजानं चाति. दुर्लभ, मोक्षधर्म चोक्तं
भवन्तो जानिनो नित्यं सर्वतश्च निरामयाः । ऐकात्म्यं नाम कश्चिद्धि कदा चित्मतिपयते ।
इति दिक् । ईश्वरप्रणिधानादिति पञ्चम्युक्तमसंप्रज्ञातपर्यन्तयोगहेतुत्वं तत्त्वप्रणिधानस्य येन द्वारेण तदाह । तदस्येति । प्रणिधाना. दिभिश्चैकायो भवति ततश्च परमात्मसाक्षात्कारः ततः परवैराग्यादसं. प्रज्ञातयोग इति शेषः । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशतइति वक्ष्यमाणवाक्यस्वरसात् । उक्तार्थ स्वपितुर्व:क्यं विष्णपुराणस्यं प्रमाणयति । तथा चोक्तमिति । योगजपयोरेकदा न संभव इति योगस्यादान्तयोर्युत्थानकाले जप उक्तः । ननु परमात्मसाक्षात्कारात परवैराग्यं भवतीति यदुक्तं तत्रोपपद्यते आत्मसाक्षात्कारेणैवाभिमानिवृत्त्या परवै| राग्यसंभवादिति । अत्रोच्यते । ब्रह्मज्ञानं ताटस्थ्येनात्र न वितितं किं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org