________________
योगवार्तिकम्। व्यक्ताव्यक्ते च पुरुषस्तिस्रो मात्राः प्रकीर्तिताः । अर्धमात्रा परं ब्रह्म जेयमध्यात्मचिन्तकैः ॥
इति । प्रणवार्थचिन्तनं च मुख्यतो विविधं, तत्रैकमंशांशिकार्यकारणशक्तिशक्तिमदादाभेदेन तप्तायः पिण्डवविभागलक्षणैकीभावादहं ब्रह्म सर्व खलु ब्रह्मेत्यादिरूपं भवति तमेतमात्मानमोमिति ब्रह्मणैकीकृत्य ब्रह्म चात्मनोमित्येकीकृत्येत्यादि श्रुतेः । सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेत्यादिश्रुतेश्च ।
एकः समस्तं यदिहास्ति किं चित्तदच्युतो नास्ति परं ततोन्यत् । सोहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥
इत्यादिस्मृतेश्च । अपरं प्रकृतितत्कार्यपुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे आत्मत्वचिन्तनम् । ओमित्येवं ध्यायथ आत्मनं स्वस्ति वः पारायतमसः परस्मात् । अथात आदेशो नेतिनेति नह्येतस्मादिति नेत्यन्य. त्परमस्ति तमेवैकं जानथ आत्मानं आत्मेत्येवोपासीतेति श्रुतेः ॥
प्रकृति पुरुष स्थाप्य पुरुषं ब्रह्मणि न्यसेत् । अहं ब्रह्म परं ज्योतिः प्रसंख्याय विमुच्यते ॥ यः सर्वभूतचित्तजो यश्च सर्वहृदि स्थितः । यश्च सर्वान्तरे * जेयः सोहमस्मीति चिन्तयेत् ॥
इति गारुडादिभ्यश्च । तथा 'आत्मेति तूपर्यान्त याहन्ति चेति ब्रह्ममीमांसासूत्राच्च । अत्र गारुडवाक्ये पुरुषस्य ब्रह्मणि न्यासो लय एव न स्वभेदः ॥
विज्ञानात्मनि संयोज्य क्षेत्र प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥
इत्यादिवाक्येषु जीविलापनेन ब्रह्मात्मचिन्तनस्य स्मरणात प्रकृतिस्थापनसाहचर्याच्च । अम्बरदृष्टान्तश्च नाखण्डत्वे
* अंशांशिभावस्याभिमतत्वेनात्र सर्वाररिति पाठः साधुरिति भाति । रा० शा॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org