________________
५२
योगवार्तिकम् । दति योगियाज्ञवल्क्यादिभ्यः । अदृष्टविग्रहो ऽदतशरीरो देवः परमात्मा भावयालो भक्तिमात्रयाझो मनोमयो मनस्तुल्यकारणोपाधिशबलो ऽयःशबलाग्निवदित्यादिरर्थः । कर्तव्यविचारोपयोगिनमर्थ पूरयति । वाच्य ईश्वरति । नित्य एव प्रणवेन सहेश्वरस्य वाच्यवाचकभाव इति । श्रद्धातिशयोत्पादनाय संशयपर्वकमवधारयति । किमस्येति । ईश्वरप्रणवयोर्वाच्यवाचकता क्तिः किमस्येश्वरस्य संकेतेनाहायर्यान्योन्याध्यासरूपेण कृता आगन्तुकी यथा पिण्डविशेषे देवदत्तादिनामवाच्यता पितृसंकेतकता तद्वत । अथ वा प्रदीपस्य प्रकाशवत्स्वाभाविकी यावदव्यभाविनीत्यर्थः । विमृष्य सिद्धान्तमाह । स्थित इति । अर्थसंबन्धमेवाभिनति प्रकाशयतीत्यर्थः। स च शक्त्याख्यसंबन्ध आधाराधेयवत्स्वरूपसंबन्धो ऽतिरिक्तपदार्थ एव वास्तु घटादिनाम्बामप्येवं बोध्यं देवदत्तादिनाम्नां तु नैवं यतः पुरुषसंकेतभेदेनार्थभेदा भवन्तीति । संकेतेनेति । अयमस्य पितेत्यादोवं. रूपेणेत्यन्वयः । ननु शक्तिनित्यत्वेपि कदा चित्संकेतभेदादेवदत्तादिशब्दवदर्थभेदापि प्रणवस्य स्यादित्याशङ्कायामाह । सान्तरेष्वपीति । अयं संकेतो लौकिको न भवति अपि तु सर्वज्ञाश्चेतनाशक्तिं पूर्वसिदामनुसृत्यैव संकेतं कुर्वन्तीत्याशयः । संबन्धनित्यत्वे संतिपत्त्याख्यकार्यनित्यत्वं प्रमा. णयति । सम्प्रतिपत्तीति । देवदत्तादिशब्दवद्वाच्यवाचकभावस्यानित्यत्वे कदा चित्संकेतवैपरीत्येन व्यवहारवैपरीत्यपि स्यादित्याशयः । तथा च सति सर्वत्र शब्दार्थ नाश्वासः स्यादित्यामिनः प्रतिजानते अवधारयन्तीति समग्रवाक्यार्थेनान्वयः । प्रणिधानाङ्गमन्त्रं प्रदर्श्य साङ्गप्रणिधानस्य स्वरूपं सूत्रकारो वयति तत्सत्रं पूरयित्वोत्यापति । विज्ञानति । सूत्रेण सहान्वयः ॥
तज्जपस्तदर्थभावनम् ॥ २८॥ सूत्रार्थ व्याचष्टे । प्रणवस्येति । प्रणवजपेन सह ब्रह्मध्यानं प्रणिधानं तच्च वाच्यवाचकभावं ज्ञात्वा कर्तव्यमिति समुदायार्थः । 'प्रणवेन पर ब्रह्म ध्यायीत नियतो यतिरिति स्मरणादिति । प्रणवार्थश्चावान्तरभेदैः श्रुत्यादिषु बहुधोक्तः संपात्तु गारुडोक्तार्थोत्र कथ्यते । यथा गारुडे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org