________________
योगवार्तिकम् ।
५१ वन्तीत्यर्थः । 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै' इत्यादिश्रुतिभ्य इति भावः । न च प्रकृतिस्वातन्त्र्यक्षतिः । निमित्तमप्रयोजक प्रकृतीनामित्यागामिस्त्रात निमित्तकारणस्येश्वरादेस्तत्स्वातन्त्र्याविधातकत्वात् । एतदेव व्याचष्टे । पूर्व हीति । अबच्छेदशब्दार्थनाव च्छेदप्रयो. जनेन कालेनापावर्तते न संबध्यते । तात्पयार्थमाह । यथास्यति । अस्य वर्तमानस्य सर्गम्यादी पूर्व प्रकर्षगत्या ज्ञानोत्कर्षप्रास्या स्वतःसिद्ध इत्यर्थः । अत्रेश्वरस्य सर्वजीवपितृत्ववचनात श्रुत्युक्ताग्निविस्फलिङ्ग छान्तानुसारेण च जीवब्रह्मणोरंशांशिभावस्तयोरभेदश्च पितापुत्रवदेवेति भावः । तथा च स्मृतिः ।
यथा दीपसहस्राणि दीप एकः प्रसूयते । तथा जीवसहस्राणि स एवैकः प्रसूयते ॥ सलिले करकाश्मेव दीपोऽग्नाविव तन्मयः । जीवो मोठयात पृथगबुढो युक्तो ब्रह्मणि लीयते ॥
इत्यादिः । अयं चाभेदो नाखण्डता अपि त्वविभागस्व, अविभागो धचनादिति वेदान्तसूत्रेण जीवानां ब्रह्मण्यविभागलक्षणाभेदस्यैव वचनात् । अविभागश्च दुग्धं जलमभूदित्यादिप्रत्ययनियामकः स्वरूपसंबन्ध आधारतादिवत्, किं वा लक्षणानन्यत्वमिति । अनेन पितृत्वान्तयामित्वरूपेण गुरुत्वेन जीवानामप्यात्मेश्वर इति वेदान्तमहावाक्यार्थापि सूचितः । यो हि यस्यांशी अधिष्ठाता वा भवति स तस्य त्मेति दृष्टं, यथा सूर्यश्चक्षुषः यथा पा जीवो देहस्येति दिक् । ईश्वरशब्दार्थी विस्तरण ध्याख्यात इदानी तत्प्रणिधानं व्याख्यातुमादौ प्रणिधानाङ्गं मन्त्रं दर्शयति ।
तस्य वाचकः प्रणवः ॥२७॥
तस्येश्वरस्य प्रणवो नामेत्यर्थः । अदृष्टविग्रहो देवो भावयाहो मनोमयः । तस्योंकारः स्मृतो नाम तेनाहूतः प्रसीदति ॥
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org