________________
योगवार्तिकम् ।
तृणारणिर्माणिन्यायेन स्वेष्टसाधनताज्ञानपरदुःखज्ञानयोर्विजातीयेच्छाद्वयं प्रत्येव फलबलेन हेतुताया: क्लृप्तत्वात् । तथा च ब्रह्मसूत्रं 'लोकवत्तु लीलाकेवल्यम्' इति । ननु तथापि भक्तानेवानुगृहाति नान्यान् प्रत्युत ताचिरात्यपि स्वभक्तैश्वर्यदानेनेत्यतो वैषम्यादिना नेश्वरस्य नित्यमुक्तत्वं भवतीति चेत् । मैवम् अग्नेरोष्णयस्वाभाव्यवत् विशुद्धसत्त्वे भक्तवशतास्वभावस्यापर्यनुयेोज्यत्वात् । वैषम्यं च रागद्वेषाभ्यामेव भवति न तु प्रवृत्तिमात्रेणेति । अत एव गीता
1
समोहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥
इति । यच्च हिरण्यगर्भायेश्वर्यदानात् अन्येषां दुःखं भवति तत्रापि हिरण्यगर्भादीनामेव वैषम्यं बीजम् । ईश्वरस्य तु परदुःखप्रहाणेच्छा विद्यमानापि भक्तवशतया कुण्ठिता स्वकार्याीय विलम्बतइति सर्व समजसम् । यच्च सर्वेश्वरस्य कर्मसापेक्षतया वैषम्यं नैर्घृण्यं च ब्रह्ममीमांसासूत्रेणापाकृतं तत्राप्ययमेवाशयः । लेोकानां विहितनिषिद्धरूपाणि कर्माणि देवानां सुखदुःखसाधनानि अत ईश्वरेण स्वभक्तदेवेषु अपरादाय यत् दुःखं दीयते ऽनपराद्वाय सुखं तदुक्तपारवर्थ्यान मित्तकमिति । स्वप्रयोजनाभावेपि विदुषां प्रवृत्तौ पञ्चशिखाचार्य वाक्य सांख्यस्यं प्रमाणयति । तथा चोक्तमिति । दिविद्वान् स्वयंभूः सर्गादावाविर्भतो विष्णुर्निर्माणचित्तं योगबलेन स्वनिर्मितं चित्तमधिष्ठाय स्वांशेन प्रविश्य कपिलाख्यपरमर्षिर्भूत्वा कारुण्या जिज्ञासवे आासुरये तत्त्वं प्रोवाचेत्यर्थः ॥
न
परमेश्वरस्यापरं विशेष प्रतिपादयति सूत्रकारः ॥
स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वेषां पूर्वपूर्वसर्गव्युत्पत्रानां ब्रह्मविष्णुमहेश्वरादीनामपि गुरु: पितान्तर्यामी विद्यया ज्ञानचक्षुः प्रदश्च । कुतः । कालेनानवच्छेदात् । ब्रह्मादोहि द्विपरार्द्धादिकालेनावच्छिचाः कालानवच्छिन्नं गुरुं विना न संभ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org