________________
४९
योगवार्तिकम् । माने श्रुत्यादिस्तर्क इति, सूत्रतात्यर्यमाह । यत्रेति। ननक्तानुमानेन सामा. न्यतः सर्वज्ञपुरुर्षासदावपि तस्य संज्ञाविशेषः कथमवधार्यतइत्याकाढायामाह । सामान्योत । सामान्यमात्रेणोपसंहारे निश्चये कृतपर्यवसानमनुमानं न संज्ञादिविशेषप्रतिपादनतममित्यत इत्यादिरर्थः । संज्ञा ब्रह्मान्तर्यामिपरमात्मादिरूपा आदिशब्देन पूर्णानन्दत्वपरमकारुणिकत्वपारमार्थिकात्मत्वजगदाधारकारणत्वादयो यामाः । हरिहरादिसंज्ञामू. तयस्तु शक्तिशक्तिमदास्यभेदेनोपासनार्थमेव परमेश्वरस्योच्यन्ते न तु साता. देव ॥
ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः । ततो न्यनाश्च मैत्रेय देवा दक्षादयस्ततः ॥ ब्रह्मविष्णुशिवादीनां यः परः स महेश्वरः ।
इत्यादिवाक्येभ्यः । आगमतो वेदान्ततः । यत्तु आधुनिकाः के चन परस्य साक्षादपि लीलावियहं कल्पयन्ति । तदप्रामाणिकं, विष्णवा. दीनामेव लीलावतारश्रवणात् । विष्णवादीनां च परमात्मन्येवाहंभावात्ते. पांमवतारा एव परमेश्वरावतारतया श्रुतिस्मृतिपूच्यन्ते तेन तु ते भ्रान्ताः 'न तस्य कार्य करणं च विद्यते' इत्यादिश्रुतिभ्यः परमेश्वरस्य कार्यकार णाख्यशरीरद्वयतिषेधात् । 'अनादिमत्परं ब्रह्म सर्वदेहविर्जित' मित्या. दिस्मृतिभ्यश्चेति दिक् ॥ ननु नित्यमुक्तश्चेदीश्वराहपुरुषार्थाभावात तस्य प्रत्तिन घटते । तथा च सांख्यसूत्रं 'स्वोपकारादधिष्ठानं लोकव'दितीति पूर्वपक्षः । तत्र । प्रवृत्त्यादिनित्यत्वात् तत्र निमितापेक्षा नास्तीति मुख्यसमाधाने साप प्रौढया प्रकारान्तरेणापि समाधानमाह । तस्मा. सेति । आत्मानुग्रहः स्वोपकारः । तस्येश्वरस्य स्वोपकाराभापि भक्तानपुरुषानुरिष्यामीत्याशयेन जानधर्मयोरुपदेशतो भक्तभूतानुयहः प्रयोजनं, पुरुषाणां विशेषणं कल्पेत्यादि । कल्पप्रलयेषु दैनंदिनप्रलयेषु महाप्रलयेषु प्राकृतप्रलयेषु च संसारिणः स्वकारणगामिनो ऽतस्तदा मरणदुःखभाज इत्यर्थः । ननु स्वेष्टसाधनताज्ञानाभावे कथं व्यापारः स्यादिति चेत्र ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org