________________
योगवार्तिकम् ।
परमात्मात्मनोोगः परमार्थ इतीष्यते । मिध्यैतदन्यद् द्रव्यं हि नैति न द्रव्यतां यतः ॥ दति विष्णुपुराणादिष्वत्यन्ताभेदस्यापि निन्दितत्वाचेति । किंबहुना
अन्यश्च राजन प्रवरस्तथान्यः पञ्चविंशकः ॥ तस्यत्वाच्चानुपश्यन्ति एक एति साधवः ।
इति मोक्षधादिष्वन्योन्याभावाविभागरूपतयैव भेदाभेदयोगख्यातत्वेन भेदवाक्याभेदवाक्ययोरनिर्णये नाधुनिककुतकापेक्षेति दिक् ॥ पुरुषान्तरेभ्य ईश्वरस्य निरतिशयसार्वजरूपविशेषान्तरं प्रतिपादयन् सूत्र. मवतारयति । किं चेति ।
___ तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
बीजं लिङ्गं सर्वज्ञानुमापकं वयमाणं यत्सातिशयजातीयं ज्ञानं ततत्रेश्वर नितिशयमित्यर्थः । सार्वजबीमिति पाठप्ययमेवार्थः । यत्त बीजं कारणं, तथा च सर्वजत्वकारणं सत्त्वमिति तस्यार्थ इति कश्चित् । तत्र । ज्ञानस्य बहुल्यतयोरेव बीजतयात्र भाष्यकारव्याख्यास्यमानत्वादिति, व्याचष्टे । यदिदमिति । यत् अतीतानागतवर्तमानानां प्रत्येकसच्चतानामतीन्द्रियार्थानामल्पं बहुत्वं ग्रहणं ज्ञानमिदं सर्वजबीमित्यर्थः । कथं बीजं तदाह । तदिति । एतत्सर्वजबीजं सातिशयज्ञानं विवर्धमान् यत्र निरतिशयं भवति स सर्वज्ञोन्यथानवस्थानादिति युक्तिरुक्ता। प्रयोगमप्याह । अस्तीति । सर्वजबीजं सातिशयज्ञानं वचित्माप्तकाष्ठं सातिशयत्वात परिमाणवदित्यर्थः । अत्र बाधकाभावे सतीति हेतुर्विशेषणीयस्तेन गुरुत्वसंस्काररूपादिषु न व्यभिचारस्तेषां चैकत्र काष्ठाप्राप्ता कार्यमात्रे अतिशयित्वमेव बाधकं सामय्यास्तारतम्याव्यवस्थित्या कार्यतारतम्ये व्यवस्थानुपपत्तेः । ज्ञानेच्छापरिमाणानां तु नित्यानामपि सिद्धतया क्वचित काष्ठा. प्राप्ती नास्ति बाधकम् । वस्तुतस्तु यथाश्रुतभाष्यादनवस्थापत्तेश्च गुरुत्वादिष्वप्यतिशयानां क्व चित्काष्ठानुमीयते सामयीतारतम्यकाष्ठाया अप्यनवस्थापत्त्यैवानुमानसाम्यात अतो न हेता विशेषणाफेनेति । अस्मिंश्चानु.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org