________________
योगवार्तिकम् ।
कभिया पलायमानस्याशीविषमुखनिपातः । यदि हि विशिष्टा अनेक प्रात्मानः कल्पनीयास्तर्हि अस्मासूपन्यस्तगौरवं भवतामप्यार्पातितमधिकं तु सामान्यैकात्मकल्पनमिति । न चात्माद्वैतश्रुत्यनुरोधेन तदप्युचितमिति वाच्यम् । विशिष्टात्मभ्यः सामान्यात्मनो ऽत्यन्तमेदे तत्त्वमस्यादाभेदवाक्यानुपपत्तितादवस्य्यात् । अत्यन्तमभेदे च विशिष्टातिरिक्तताविरोधात् । भेदाभेदे चास्मन्मतप्रवेशादिति, अस्माभिरपि हि सामान्यरूपेणाभेदो वैधर्म्यलक्षणभेदनिरासायेष्यते विशेषतस्तु भेद इति । तथा चोक्तं कपिलाचार्यैः । नाद्वैतश्रुतिविरोधो जातिपरत्वादिति । एवं तावदवच्छेदवादो निरस्तः । प्रतिविम्बवादस्वत्यन्तं विकल्पासहः । प्रतिबिम्बस्य तुच्चत्वे प्रतिबिम्बरूपजीवस्य ब्रह्मणा सहाभेदानुपपत्तिः सदसतोरभेदानुपपत्तेः । प्रतुच्छत्वे चात्मनानात्वस्य शब्दभेदेन स्वीकारार्पात्तरद्वैतायनुपपत्तिश्चेति । अत्र च मूढानामुपर्युपरि कक्षाः ब्रह्ममीमांसाभाष्येस्माभिर्निराकृताः । तत्त्वमस्यादिवाक्यानि तत्र विस्तरेण व्याख्यातानि संक्षेपतस्त्वत्रापि* व्याख्यास्यामः । न्यायानुग्रहेण बलवद्विनिविस्फुलिङ्गादिभिः सांशदृष्टान्तैः विरोधादाकाशसूर्यादिदृष्टान्ता अखण्डतापरा न भवन्ति किं तु ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदस्य सर्वकालस्यापि तथा पारमार्थिकत्वेपि यत्किंचिदवच्छेदेन फेनबुद्बुदादिवत् प्रतिभङ्गरस्य विभागलक्षणभेदस्यापारमार्थिकस्यैापाधिकत्वमात्रं प्रतिपादयन्तीति । एतेन भेदनिन्दावाक्यानि प्रकरणभेदेर्बिभागवैधर्म्यादिभेदपराण्येव । यच्चेोक्तमभेदज्ञानान्मतः श्र. यतइति तत्परंपरयैव न तु साक्षात् । अथात आदेशो नेतिनेति नोतस्मादिति नेत्यन्यत्यरमस्ति
प्रधानपुरुषव्यक्तकालानां परमं हि तत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥
इत्यादयैः श्रुतिस्मृतिवाक्यैर्विवेका व्यभेदज्ञानस्यैव मुख्यत्वात् ॥
* पश्चादित्यधिकं पुस्तकान्तरे ।
Jain Education International
For Personal & Private Use Only
४७
www.jainelibrary.org